Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ ___१५ तिलकमञ्जरी ] अव्याज्जगन्ति पुरुषोत्तमनाभिसूते र्देवस्य वक्त्रकमलोदरमावसन्त्याः । धौतेव दन्तकिरणमकरेण मूर्ति देव्या गिरामधिपतेः शरदिन्दुगौरी ॥५॥ [वसन्ततिलकावृत्तम्] ॥ 5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ पञ्चमश्लोकव्याख्या क्रियते-अव्याद् रक्षतु का ? मूर्तिस्तनुः कस्याः ? गिरामधिपतेर्देव्याः सरस्वत्याः । कीदृशी ? शरदिन्दुगौरी शरच्चन्द्रधवला, उत्प्रेक्षते कविधौंतेव प्रक्षालितेव । केन ? दन्तकिरणप्रकरेण दशनानां सुसंघातेन । किं कुर्वन्त्या ? आवसन्त्यास्तिष्ठन्त्याः । किं तद्वक्त्रकमलोदरं मुखपद्ममध्यम् , कर्मत्वं तु उपान्वध्याड्चस [ २-२-२१ ] इति मुखकमलमध्ये इत्यर्थः । कस्य ? देवस्य किमभिधानस्य ? पुरुषोत्तमनाभिसूते पुरुषोत्तमश्चासौ नाभिसूतिश्च नाभेयश्च स तथोक्तस्तस्य ऋषभस्येत्यर्थः । लोकभाषया पुरुषोत्तमो विष्णुस्तस्य नामि भिपद्मं तात्स्थ्यात् तस्मिन् सूतिरुत्पत्तिर्यस्य स तथोक्तस्तस्य ब्रह्मण झ्यर्थः । कानि रक्षतु ? जगन्ति जगत्त्रयस्थितप्राणिनः ॥५॥ ॐ श्रीमत्पद्मसागरविवुधरचिता व्याख्या के अथ भगवन्मुखकमलमावसत्याः सरस्वत्या मूर्तिस्तुतिमाह-अव्याज्जगन्तीति । व्याख्या० गिरामधिपतेर्वाचा स्वामिन्या देव्याः सरस्वत्या 'मूर्तिमन्करणकायमूर्तय' इत्यभिधानचिन्तामणिवचनान्मूर्तिः शरीरं जगन्ति भुवनान्यव्यात्पायात् । अथाऽस्या मूर्तिः कीदृशी, शरदिन्दुगौरी शरच्चन्द्रशुभ्रेत्यथः, मूर्तः शुभ्रत्वं तु प्रायो धौतत्वे सति संभवतीत्याह-मूर्तिः कथंभूता, इवोत्प्रेक्ष्यते धौता, केन दन्तकिरणप्रकरण, भगवद्दन्तसम्बन्धिमरीचिजालेन धौतत्वाच्छुभ्रा सारस्वती मूर्तिरित्यर्थः । ननु सारस्वत्या मूर्तेर्दवसम्बन्धित्वेन सुधादिना तावद्धौतत्वं संभवति, कथं पुनरादीश्वरसम्बन्धिदन्तकिरणप्रकरणेत्यत आह-किलक्षणाया देव्या वक्त्रकमलोदरमावसन्त्या वक्त्रमेव मुखमेव कमलं पद्मं तस्योदरं मध्यं तदाश्रित्याऽऽवसन्त्या वसतिं कुर्वाणाया इत्यर्थः । कस्येदं वक्त्रकमलमित्याशङ्कयाऽऽह-देवस्य स्वामिनः किलक्षणस्य पुरुषोत्तमनाभिसूतेः, पुरुषाणां मध्ये कुलकरत्वेनोत्तमः पुरुषोत्तमः स चाऽसौ नाभिरिति नाभिकुलकरस्तस्मात्सूतिरुत्पत्तियस्य स तथा तस्य, देवस्य वृषभस्वामिन इत्यर्थः । अयमस्य कवेरभिप्राय आदीश्वरसम्बन्धिमुखकमले किल सरस्वतीमूर्तिवसति, सा च प्रत्यासन्नत्वाद्दन्तकिरणप्रकरण चन्द्रज्योत्स्नाशीतलेन धौता संभवतीति तात्पर्यम् , यद्यपि मुखे साक्षान्मूर्तिमत्याः सरस्वत्या वासो न संभवति तथापि यथार्थवक्तृत्वलक्षणतत्फलदशनेनाऽनुमापित एवाऽर्थोऽयं मन्तव्यः । अथ सरस्वत्याः कविसमये ब्रह्मपुत्रीत्वेन सम्मतत्वात्तन्निरूपणार्थ द्वितीयार्थमाह-पुरुषोत्तमः कृष्णस्तस्य नाभितः सूतिरुत्पत्तियस्य स तथेत्येवंविधो ब्रह्मा, तस्य लोके देवत्वेन प्रसिद्धत्वाद्देवस्य वक्त्रकमलं मुखकमलमुदरं जठरं तद्वयं समाहतं यथा स्यात्तथाऽऽवसन्याः स्थिति कुर्वन्या इत्यर्थः । अयं भावार्थः पितृस्नेहेन स्वोत्संगे स्थितायाः सरस्वत्याः पुत्रीस्नेहेन चुम्बनार्थ हि किल ब्रह्मा स्वमुख स्वोदरासन्नं करोति तदानीं तदन्तःस्थाया अस्या मूर्तिब्रह्मणो दन्तकिरणप्रकरेण धौतेव भवतीति द्वितीयार्थ इति वृत्तार्थः ॥ ५॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ विस्मयरसातिरेकज्ञापनार्थम् , यद्यपि देवानां तिरश्वां च विस्मरसो भवति तथापि स न तदानीन्तनमनुजानां विस्मयरससदृशः, यतो देवैरन्यतीर्थकरतोऽपि विस्मयरसः प्रागनुभूतो भवति, तिर्यञ्चश्च मन्दचैत्यन्या भवन्ति । उद्यदपूर्वविस्मयरसैः उद्यन् उच्छलन् अपूर्वः प्रागननुभूतोऽनुत्तरो वा विस्मयरसः ‘इयं वाणी किंवा सुधाप्रवाहः' इत्याद्याश्चर्यरसो येषां ते तथा । वृन्दैः समूहै: । आकर्णिता-श्रुता । कदाकर्णितेत्याह-आये धर्मकथाविधौ, आधे-केवलज्ञानो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84