Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तिलकमञ्जरी ]
शेषे सेवाविशेषं ये, न जानन्ति द्विजिह्वताम् ।
यान्तो हीनकुलाः किं ते, न लज्जन्ते मनीषिणाम् १ ||१०|| [ पथ्यावृत्तम् ] ॥
Acharya Shri Kailassagarsuri Gyanmandir
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम् 5
शे तालव्यशकारे पे मूर्धन्यषकारे से दन्त्यसकारे वा समुच्चये विशेषं मेदं ये नरा न जानन्ति न बुध्यन्ते से किं न लज्जन्ते लज्जितव्यमेव तैर्भवति, केषां ? मनीषिणां विदुषाम्, किं कुर्वन्तो ? यान्तो गच्छन्तः, कां ? द्विजिह्नतां दुर्जनतामग्रे पृष्ठतो गुणदोषग्राहित्वात् कीदृशा ? हीनकुला नीचगोत्रा इत्येकोऽर्थः । अपरश्व शेषे नागराजे सेवाविशेषं विशिष्टाराधनं ये न जानन्ति, अहीनामीनः स्वामी नागराजस्तस्य कुलं गोत्रं येषां ते तथोक्ता नागराजकुलजातास्ते किं न लज्जन्ते ? लज्जन्त एव मनीषिणाम्, किं कुर्वन्तो ? यान्तः, कां ? द्विजिह्वतां सर्पताम्, अवश्यमेव ये नागराजकुले जातास्ते नागराजसेवां जानन्ति, यद्वा ही विस्मये, से नकुलाः किं न लज्जन्ते लजन्त एव, कैषी ? मनीषिणां बुद्धिमताम्, किं कुर्वन्तो ? यान्तः, कां ? द्विजिह्वतां सर्पताम्, वयं सर्पा इति भणन्तः ॥ १०॥
२१
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 5
अथैतादृशस्वभाववतां पदे पदे लज्जैव कर्तुं युक्तेत्येतद्दर्शयति - शेषे सदा इति, व्याख्या ० ते मनीषिणः पण्डितम्मन्याः किं न लज्जन्ते लज्जावन्तः किं न भवन्त्यपि तु तथाविधे स्थाने निर्लज्जा अपि लजां प्राप्नुवन्तीत्यर्थः । के ते मनीषिण इत्याह-ये सर्वस्याऽपि विश्वस्य स्वस्वभावतुल्यतया पश्यन्तः शेषे स्वस्मादितरस्मिन् सत्पुरुषे सदा निरन्तर विशेषं सदाचरणादिगुणाधिक्यं न जानन्ति न विदन्ति । ननु कथं नैते तद्विशेषं जानन्तीत्याहकिं कुर्वन्तस्ते यान्तः प्राप्नुवन्तः कां द्विजिह्नतां पिशुनतां तादृशा हि न कस्याऽपि गुर्ण जानन्तीत्यर्थः । अथ ताशा भवन्तस्ते लोके कीदृशं व्यपदेशं प्राप्नुवन्तीति दर्शयति, हीनकुला इति व्यक्तम् । अत एव ते प्रस्तावे स्वलक्षणजनिततापेन लज्जन्त एवेति । अथ द्वितीयं व्ययार्थमाह-ये शेषे शेषनागे द्विजिह्नतां सर्पतां गत्यर्था ज्ञानार्था ' इति वचनाद्यान्तो विदन्तो यथैते सर्पास्तथाऽयमपि सर्प एवेति ज्ञानवन्तो वसुन्धराधारित्वाहिविशेषं न जानत्यपरसर्पेष्विव शेषेऽप्याचरन्ति । ते च क इत्याह-हीनेति हीति निश्वये खेदे वा ते नकुला किं न लज्जन्त इति योज्यम् । किंविशिष्टा नकुला मनीषिण इति नकुल्यौषध्यादाने मनीषा बुद्धिरस्त्येषां ते तथेति वृत्तार्थः ॥ १० ॥
5 श्रीविजयलावण्यसूरिविरचिता परागामिधा विवृतिः
सर्पन्तस्तेषाम्, गच्छतामित्यर्थः, काव्यरूपमार्गे प्रवर्तमानानां जनानामिति फलितोऽर्थः । अह्निरपि यदा चौरादिरूपदोषरहिते मार्गे गच्छतामप्रगामितया तिरोगच्छन् विघ्नं अपशुकनलक्षणमुपद्रवं करोति तदाऽनार्यः क्रुद्धो वार्यः । इदं पथ्यावृत्तम्, तलक्षणं तु अष्टम श्लोकविश्रुतिप्रान्ते दर्शितम् ॥९॥
For Private And Personal Use Only
अथ दुर्जनदुर्दशा दर्शयति- शेषे सेवाविशेषमित्यादिना 'ये शेषे से वा विशेषं न जानन्ति ते हीनकुलाः किं न लज्जन्ते' इत्यन्वयः । ये दो - तालव्यशकारे, पे- मूर्धन्यषकारे, से- दन्त्यसकारे, वा-च, विशेषं-तालव्यमूर्धन्यदन्यरूपं भेदम्, न जानन्ति = नावबुध्यन्ते ते, हीनकुलाः = अधमकुला दुर्जनाः, किं न लज्जन्ते अर्थादवश्यं तैर्लज्जितव्यमिति काकुः । यद्वा शेषे - स्वातिरिक्ते सज्जने सेवाविशेषं विशिष्टसेवागुणम् अन्यत् समम् । कीदृशाः सन्तः ? द्विजिह्वतां यान्तः, द्विजिह्नतां - जिह्वे कथनप्रवृत्ते रसने येषां ते द्विजिह्वास्तेषां भावो द्विजिह्वता तां तथा, रसनायुगलमित्यर्थः । यान्तः - गच्छन्तः । अयं भावः - दुर्जना हि प्रत्यक्षे गुणोच्चारणप्रवृत्तां जिह्वां परोक्षे दोषोचारणप्रवृत्तां च जिह्वां धारयन्ति, प्रत्यक्षे गुणवाचिनः परोक्षे दोषवाचिनश्चेत्यर्थः यद्वा पूर्वमन्यवदनप्रवृत्तां पश्चात्
و

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84