Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org [ टिप्पनक - व्याख्या- विवृतिविभूषिता प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः ॥ २॥ [मविपुलावृत्तम् ] ॥ 5 विबुधशिरोमणि श्री शान्त्याचार्यविरचितं टिप्पनकम् फ ददतां ददातु दद दानेऽस्य पञ्चम्यात्मनेपदैकवचने तामि रूपम्, को ? जिनो वचनपरिणामेन सम्बन्धः । कीदृशो ? निर्वृतात्मा मुक्तस्वरूपो रागादिरहित इत्यर्थः । पुनः किनामा ? आद्य ऋषभनाथः । कां ददतां ? मुदं धर्मादिप्रकाशत्वेन हर्षम् । केषां ? नोऽस्माकम्, न केवलमायो जिनोऽन्येऽपि जिना ददतां प्रयच्छन्तु, डुदाञ् दानेऽस्य पञ्चमीपरस्मैपदबहुवचने अन्तामि रूपम् । तेऽपि कीदृशा ? निर्वृत्तात्मानो मुक्तस्वरूपाः । कां ? मुदम् । केषां ? वो युष्माकम् । किंभूत आद्यः ? किभूताश्वान्ये जिना अजितादिवर्द्धमानान्ताः ? प्राज्यप्रभावः प्रचुरानुभावः प्राज्यप्रभाः प्रचुरतेजसस्तथा । प्रभवो जनकः । कस्य ? धर्मस्याहिंसादिलक्षणस्य प्रभवः स्वामिनस्तथा । अस्तरजस्तमा अस्ते क्षिप्ते अपनीते रजस्तमसी बध्यमानबद्धे बद्धनिकाचिते वा कम्र्मणी येन स तथोक्तोऽस्तरजस्तमा अस्तं रजः पापं यैस्ते तथोक्ता अतिशयेनास्तरजसोऽस्तरजस्तमाः प्रकर्षे तमादित्वात्तमप्रत्ययः । इत्येकवचनबहुवचन श्लेषः ॥ २ ॥ 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5 ततः 'ईक्ष् + ते ' इति जाते " कर्तर्य • " [ ३, ४, ७१] इति शबि, शवयोरित्त्वा दवशिष्टाकारमीलने च ईक्षते 'तनूयी विस्तारे' इत्यतः “ तनित्यजियजि० " [ उणा० ८९५] इति उत्प्रत्यये डकारस्येत्त्वाद् “ डित्यन्त्य० " [२, १, ११४] इत्यन्त्यस्वरादेर्लुकि ' तद्' इति, ततः प्रथमैकवचनसिप्रत्यये “आद्वेरः ' [२, १, ४१ ] इति दकारस्याकारे " लुग० " [२, १, १३३] इति पूर्वाकारस्य लोपे, “ एतदव० [१, ३, ४६ ] इति सिप्रत्ययलोपे चस ।' जिं ज्रि अभिभवे' इत्यतो जयति रागादीनमिभवतीति " जीणूशी ० " [ उणा० २६१ ] इति नप्रत्यये 'जिन' इति, ततः प्रथमैकवचनसिप्रत्यये प्राग्वत् विसर्गतामापने जिनः । 'युषः सौत्रः सेवायाम्' इत्यतः “युष्यसिभ्यां क्मद् [ उणा० ८९९ ] इति मत्प्रत्यये ककारस्येत्त्वात् 'युष्मद्' इति, ततः " कर्मणि " [२, २, ४० ] इति द्वितीयाबहुवच• नस्य शस् प्रत्ययः, ततः पदाद्० [ २, १, २१ ] इत्युभयस्थाने वस्आदेशे सकारस्य प्राग्वत् विसर्गे च वः । 'पांकू रक्षणे ' इत्यतः ' विधिनिमन्त्रणा ० " [ ५, ४, २८ ] इति तुप्रत्ययः, वकारस्येत्त्वात् पातु । इत्येवमग्रेऽपि प्रतिपदं "" 66 ८८ शब्दसाधनिकाऽवसेया ग्रन्थगौरवभयादत्र न वक्ष्यते । र य " इदं मविपुलाख्यं विषमवृत्तम्, तल्लक्षणन्तु " तुर्यान्नतभ्रम्सास्तद्विपुला ” [ इतिच्छन्दोऽनुशासने ] तदर्थस्तु'ओजे विपरीतादिः' इत्यत ओज इत्यनुवर्तते । ओजयोः पादयोस्तुर्यादक्षरात् परं यगणं 'अनुष्टुभ नाद्यात् स्नौ तुर्याद्यो वक्त्रम्' इत्यत्रोक्तं बाधित्वा नतभरमसाश्चेद् भवन्ति तदा तद्विपुला, युजोः षड्भ्यो ल इति तु स्थितमेव । ओज इत्यत्र जातिपक्षी व्यक्तिपक्षश्च तत्र व्यक्तिपक्षे मविपुलोदाहरणमिदम् — भ ज ल य र Adm 144 अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ १ ॥ मविपुला | प्रस्तुते च य ज ल Acharya Shri Kailassagarsuri Gyanmandir म र म ज त म -- 1 स वः पातु जिनः कृत्स्न--मीक्षते यः प्रतिक्षणम् । रूपैरनन्तेरेकैक - जन्तोर्व्याप्तं जगत्त्रयम् ॥ १ ॥ मविपुला | For Private And Personal Use Only ल ज ल 1

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84