Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ द्वेषो द्विषद्दारुणहेतुगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमर्हन् ॥ १ ॥”। वः-युष्मान् । पातु-रक्षतु । नन्वस्ति चेन्नीरागता तर्हि नैनं नेतुं शक्यते रक्षणकर्तृता रागरञ्जनतापत्तेरिति चेन्न भगवान् स्वयं नीरागोऽपि तथाविधस्वभावादेव चिन्तामण्यादिरिवोपासकजनानां रक्षणादिकं विधत्ते ।
अथ श्रीसिद्धहेमशब्दानुशासनानुसारेण शब्दसाधनिका_ 'यजी देवपूजासंगतिकरणदानेषु' इत्यतः “तनित्यजियजि०" [उणा०८९५] इति उत्प्रत्यये उकारस्येत्त्वाद् "डित्यन्त्य." [२, १, १४] इत्यन्त्यस्वरादेलुकि 'यद्' इति ततः “नाम्नः०" [२, २, ३१] इतिप्रथमैकवचनसिप्रत्यये “आढेरः" [२, १, ४१] इति दकारस्याकारे “लुगस्या०" [२, १, ११३] इति पूर्वाकारस्य लोपे 'य' इतिजाते, सिप्रत्यये इकारेत्त्वादवशिष्टस्य सकारस्य “सो रुः" [२, १, ७२] इति रुः, तत्रोकारस्येत्त्वादवशिष्टस्य रकारस्य "रः पदान्ते." [१, ३, ५३] इति विसर्गे यः, 'इंण्क् गतौ' इत्यतः “ भीणशलि." [उणा० २१] इति कप्रत्यये “नामिनो गु०" [४, ३, १] इति गुणे 'एक' इति, ततो वीप्सायां “वीप्सायाम् ” [७, ४, ८०] इति द्विर्भावे “एदौत्" [१, २, १२] इति संधौ च 'एकैक' इति, न तु एकश्च एकश्चेति वृत्तिरनभिधानात् तादृशार्थाविवक्षणाद् एकशेषप्रसक्तेश्च । 'जनैचि प्रादुर्भावे' इत्यतः “कृसि." [उणा० ७७३ ] इति तुप्रत्यये 'जन्तु' इति, एकैकश्चासौ जन्तुश्चेति “पूर्वकालैक." [३, १, ९० ] इति समासे “एकैकजन्तु” इति, ततः “शेषे" [२, २, ८१] इति षष्ठयेकवचनस्प्रत्यये “ङित्यदिति" [१, ४, २३] इत्युकारस्थाने ओकारे "एदोद्भ्यां०" [ १, ४, ३५ ] इति उसः स्थाने रकारादेशे, तस्य च विसर्गे एकैकजन्तोः । 'अम शब्दभक्त्योः ' इत्यतः ‘अम गतौ' इत्यतो वा “दम्यमि." [उणा० २००] इति तप्रत्यये "म्नां." [१, ३, ३९] इति मकारस्य नकारे 'अन्त' इति, ततो न विद्यतेऽन्तो येषां तानीति " उष्ट्रमुखादयः [ ३, १, २३ ] इतिसमासे 'अनन्त' इति, ततः, “हेतुकर्तृ." [२, २, ४४] इति तृतीयाबहुवचनस्य भिसप्रत्ययः, तस्य “मिस ऐम्" [१, २, ४] इत्यैस्-आदेशे विसर्गे सन्धौ च अनन्तैः । 'रूपण रूपक्रियायाम्' इत्यतः “अच्" [५, १, ४९] इत्यच्प्रत्यये चकारस्येत्त्वाद् 'रूप' इति जातम् , ततः प्राग्वत्तृतीयाबहुवचने रूपैः। व्यापूर्वात् 'आप्लंट व्याप्ती' इत्यतः “क्तक्तवतू" [५, १, १७४ ] इति क्ते प्रत्यये ककारस्येत्त्वात् ‘व्याप्त' इति, ततः “कर्मणि" [२, २, ४० ] इति द्वितीयैकवचनस्याम्प्रत्यये “समाना०" [१, ४, ४६ ] इतिपूर्वाकारस्य लोपे च व्याप्तम् । “कृतैप संवेष्टने' इत्यतः कृत्यते त्यज्यतेऽनेनेति “ कृत्यशोभ्यां स्नक्” [ उणादि-२९४ ] इति स्नक्प्रत्यये ककारस्य चेत्त्वात् ‘कृत्स्न' इति, ततः प्राग्वद् द्वितीयैकवचनाम्प्रत्यये कृत्स्नम् । 'गम्लं गतौ' इत्यतः “दिद्युट० " [५, २, ८२ ] इति विष्प्रत्यये 'जगत् ' इति 'उभत् पूरणे' इत्यतः “उभेत्रौ च" [ उणा० ६१५] इति सूत्रेणेप्रत्यये त्रादेशे च 'त्रि' इति । त्रयोऽवयवा यस्येति “ द्वित्रिभ्यां०" [७, १, १५२ ] इत्ययट्प्रत्यये “ अवर्णे. " [७, ४, ६८ ] इतीकारलोपे टकारस्येत्त्वात् 'त्रय' इति, जगतां त्रयमिति “षष्ठययत्ना०" [३, १, ७६ ] इति समासे 'जगत्त्रय' इति ततः प्राग्वद् द्वितीयकवचने जगत्त्रयम् । 'प्रथिष् प्रख्याने' इत्यतः “प्रथतेर्लक् च" [ उणा. ६४७ ] इति तिप्रत्यये थलोपे च ‘प्रति' इति, “क्षणू क्षिणूयी हिंसायाम् ' इत्यतः “ अच्" [ ५, १, ४९] इत्यच्प्रत्यये चकारस्येत्त्वात् 'क्षण' इति क्षणं क्षणं प्रतीति “ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये" [३, १, ४० ] इत्यव्ययीभावसमासे 'प्रतिक्षण' इति, ततः “ कालाध्वनोप्प्तौ " [२, २, ४२ ] इतिद्वितीयैकवचनस्य “ अमव्ययीभावस्या." [३, ३, २,] इत्यमादेशे पूर्वाकारलोपे च प्रतिक्षणम् । ईक्षि दर्शने च' इत्यतः “ सति" [५, २, १९] इति वर्तमानासंज्ञकप्रत्ययाष्टादशकप्रसङ्गेऽपि “ इङितः०" [३, ३, २२ ] इत्यात्मनेपदसंज्ञकवर्तमानाप्रत्ययनवकप्रसङ्गस्तत्रापि " त्रीणि." [३, ३, १७] इति प्रथमत्रिकप्रसङ्गेऽपि “एकद्वि०" [३, ३, १८] इति प्रथमस्तेप्रत्ययो भवति,
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84