Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी ] 5 श्रीपद्मसागरविवुधरचिता व्याख्या 5 अथ भूतभविष्यदिहत्याऽपरक्षेत्त्रीयानन्तजिनसाधारणस्तवनं विधायाऽस्यामवसर्पिण्यां प्रथमोपकारित्वेन सर्वसम्मतस्याऽऽदिनाथस्याऽपरेषामप्यजितादिजिनानामाराध्यत्वाविशेषादन्यजिनपदगृहीतानामेकवचनबहुवचनसाम्यव्युत्पत्त्या स्तुतिमाधातुमाह–प्राज्यप्रभा इति । व्याख्या० नोऽस्माकमाद्यो जिनः प्रथमतीर्थकृद् ऋषभनामा मुदं हर्षं ददतामिति पञ्चम्यात्मनेपदैकवचनान्तत्वेन ददात्वित्यर्थः । अथाऽस्य जिनस्य निष्प्रभावत्वेन कथं कविमार्गितहर्षदायित्वं स्यादित्याशङ्कामपाकर्तुमाह–कथंभूतोऽयं जिनः, प्राज्यप्रभावः प्राज्यः प्रभूतः प्रभावी माहात्म्यं यस्य स तथेति । अथाऽस्य व्याघ्रादेरिव प्राज्यप्रभावत्वेऽपि धर्मजनकत्वं न भविष्यतीत्याशङ्कायामाह -कथभूतोऽयं जिनो धर्मस्य प्रभवः प्रकर्षेण प्रथमतीर्थप्रवर्तकत्वाद्भव उत्पत्तिर्यस्मात्स तथेति । अथ धर्मोत्पादकत्वेऽपि शम्भोरिवाऽस्य रजस्तमोमयत्वं भविष्यतीति शङ्कामपाकर्तुमाह, अस्तरजस्तमा इति, रजस्तमसी तावद् गुणौ तौ च तत्तत्फलजनकत्वेन परमरागद्वेषवतः शम्भोरेव भवतो न तु वीतरागस्याऽस्य जिनस्य तत्फलजनकत्वाभावात्तेन अस्ते क्षयं प्रापिते रजस्तमसी येन स तथेति । यद्वा रजः पापं तदेव तमोऽन्धकारमस्तं रजस्तमो येन स तथेति । अथैवंविधोऽप्यसौ भवावस्थ एवं भविष्यतीत्याशङ्कां निरस्यन्नाह-कथंभूतोऽयं जिनो निर्वृतात्मा, निर्वृतो निर्वाणं प्राप्त आत्मा यस्य स तथेति, एतेनाऽस्य परमेश्वरस्याऽप्यवस्थाद्वयं सूचितं भवति, तथाहि - भवावस्था मुक्तावस्था च भवावस्थाऽपि द्विधा, गार्हस्थ्यावस्था दीक्षावस्था च, दीक्षावस्थाऽपि द्विधा छाद्मस्थ्यावस्था कैवल्यावस्था च, तत्र कैवल्यावस्थायां समुत्पन्नपरमज्ञानस्याऽपि समूलघातिकर्मक्षयेऽप्यवशिष्टकर्मसद्भावान्न निर्वृतात्मत्वं तेषामपि क्षये च निरृतात्मत्वं भगवतः सिद्धमिति । अथ बहुवचनान्तविशेषणविशेष्यक्रियाभिरेतस्यैव काव्यस्य प्रथमं स्तुतप्रथमजिनादपर जिनस्तवन सूचनचतुरो द्वितीयार्थ उपदर्श्यते, अन्येऽप्यजितादयो जिना वो युष्माकं मुदं ददतामिति पञ्चम्यात्मनेपदबहुवचनान्तप्रयोगाद्ददत्वित्यर्थः । किंविशिष्टास्ते जिनाः प्राज्यप्रभाः प्राज्या प्रभा कान्तिर्येषां ते तथा । अथाऽऽदर्शादीनामपि प्राज्यैव प्रभाऽस्ति तेनैतेषां किमाधिक्यमायातमित्याशङ्कयाह--कथंभूता जिनाः प्रभवः स्वामिनो योगक्षेमकारित्वान्नाथा इति यावत् । कस्य ? धर्मस्य पुण्यस्य, अथ द्वितीयविशेषणेन प्रथमविशेषणस्य दाढर्यं दर्शयति, यत एवैते धर्मस्य प्रभवः, तत एवैते कथंभूता अस्तरजस्तमा अतिशयेन रजो रजस्तमं घनं पापमित्यर्थः, तमप्रत्ययविधानादस्तं रजस्तमं यैस्ते तथेति । पुनः कथंभूतास्ते निर्वृतात्मानो निरृतः सिद्ध आत्मा येषां ते निर्वृतात्मान इति द्वितीयकाव्यस्याऽर्थद्वयम् ॥ २ ॥ For Private And Personal Use Only ११ 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5 अथैकवचनबहुवचन श्लेषेण चतुर्विंशतेजिनानां नमस्कारमाह-' प्राज्यप्रभावः' इत्यादि । प्राज्यप्रभावो धर्मस्य प्रभवोऽस्तरजस्तमा निरृतात्मा आयो जिना [जिनः ] नो मुदं ददतामित्याद्यजिनपक्षेऽन्वयः, अन्यजिनपक्षे तु प्राज्यप्रभा धर्मस्य प्रभवोऽस्तरजस्तमा निर्वृतात्मनोऽन्येऽपि जिना वो मुदं ददतामित्यन्वयः । तत्राद्यजिनपक्षे प्राज्यप्रभावः = प्राज्यः प्रचुरः प्रभावस्तेजः शक्तिर्वा यस्य स तथा “ प्रभावस्तेजसि शक्तौ " इत्यनेकार्थसंग्रहः । धर्मस्य - अहिंसादिलक्षणस्य । प्रभवः कारणम्, उपदेशादिना जनक इत्यर्थः । " प्रभवो जन्मकारणे " इत्यनेकार्थसंग्रहः । अस्तरजस्तमाः =अस्ते नाशं गते रजस्तमसी रजोगुणतमोगुणौ यस्य स तथा सत्त्वगुणावर्जनात् सत्त्वगुणान्वित इत्यर्थः । एतेन परमात्मनि ये निर्गुणत्वं स्वीकुर्वन्ति तन्मतमपास्तम् । सत्त्वादिगुणलक्षणं चेदम्-" सत्त्वं लघु प्रकाशक मिष्टमुपटम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवञ्चार्थतो वृत्तिः ॥१॥ इति सांख्यतत्त्वकौमुदी । यद्वा अस्ते क्षिप्तेऽपनीते रजस्तमसी रजस्तमस्सदृशे बध्यमानबद्धे बद्धनिकाचिते वा कर्मणी येन स तथा । निर्वृतात्मा निरृतः शिवंगत आत्मा यस्य स तथा । “अथ निर्ऋतिः । मोक्षे मृत्यौ सुखे सौस्थे......।" इत्यनेकार्थसंग्रहः । आद्यः प्रथमः । जिनाः- अर्थवशाद् वचनविपरिणामेन जिन इतिसंस्कारः । तदर्थस्तु रागादिजेता देवः, ऋषभदेवनामा ""

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84