Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [टिप्पनक-टीका-विवृतिविभूषिता ॐ विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ यः सर्वदारोचितचित्तवृत्तिस्तथाप्यदारोचितचित्तवृत्तिः । सिद्धेषु रागान्वितचित्तवृत्तिस्तथापि सिद्धान्तसुचित्तवृत्तिः ॥ १३ ॥ उपजातिः ॥ समाश्रितोऽधामतया सदापि श्रितः स्फुरद्धामतया तथापि । सदर्पणो दर्पणरिक्तकोऽपि स नेमिसूरियताजगल्याम् ॥ १४ ॥ युग्मम् ॥ उपेन्द्रवज्रा।। वर्णवर्गान्तवर्तिनौ निजनामावलम्बिनौ । नमौ गुणश्रियायोज्य स्पर्शभाव नयन्ति ये ॥ १५ ॥ अनुष्टुप् ॥ तेषां श्रीनेमिसूरीणां गुरूणां पादसेवया । नायान्ति किमु दक्षत्वं मादृशा जडशेखराः ॥ १६ ॥ अनुष्टुप् ॥ युग्मम् ॥ परागो न परागोऽप्य-प्यसुवर्णः सुवर्णकः । दुष्प्राप्यसदलंकार-धनपालार्थनायकः ॥ १७ ॥ अनुष्टुप् ॥ ॐ परागाभिधविवृतिमङ्गलाचरणटिप्पनिका ॥ कान्तापक्षेऽयं विशेषः अलंकारा हारादयः, पदे पादौ, प्रसन्ना-प्रसन्नतायुक्ता, श्लेषा आलिङ्गनानि, वरो ध्वनिः, भावा हृदयगतावस्थावेदका मानसविकाराः, स्वेदकम्पादयो व्यभिचारिभावा वा, रसः शृङ्गारादिः । वर्णो गौरादिः विलेपनमङ्गरागो गीतक्रमो वा ॥१२॥ सर्वदारोचितचित्तवृत्तिः सर्वेषां दाराणां नारीजनानामुचिता चित्तवृत्तियस्य स तथा, पक्षे सर्वदा रोचिता चित्तवृतियस्य स तथा । अदारोचितचित्तवृत्तिः-न दारोचिता स्त्रीजनोचिता चित्तवृत्तियस्य स तथा। सिद्धेषु-सिद्धभगवत्सु । सिद्धान्तसुचित्तवृत्तिः सिद्धानामन्ते सुचित्तवृत्तिर्यस्य स तथा, पक्षे सिद्धान्तेषु आगमेषु चित्तवृत्तिर्यस्य स तथा ॥१३॥ ___अधामतया अनगारतया साधुतयेत्यर्थः । सदर्पणः-दर्पणेनामिमानेन आदर्शेन वा सहितः, पक्षे सतां सद्वस्तूनाम् अर्पणोऽर्पणहेतुः । दर्पणरिक्तकः दर्पणेनामिमानेनादर्शन वा रिक्तको रहितः ॥१४॥ 'नेमि' इत्यत्र 'न् ए म् इ' इति वर्णचतुष्टयं वर्तते तदाश्रित्य महिमागर्भिता कल्पना वर्णवर्गान्तवर्तिनौ वर्णानां ब्राह्मणादीनां ये वर्गा विभागविशेषास्तदन्तवर्तिनी, चाण्डालाद्यस्पृश्यकोटिं गतौ, पक्षे वर्णानां कादीनां ये वर्गाः “पञ्चको वर्गः" [सिद्धहेम-१. १. १३ ] इत्युक्ताः पञ्चसंख्यापरिमाणा वर्णसमुदायाः, कवर्गचवर्गटवर्गतवर्गपवर्गरूपास्तदन्तवर्तिनौ, नकार तथदधन' इत्येवरूपे तवर्गे मकारं 'पफबभम' इत्येवंरूपे पवर्गेऽन्तवर्तिनमित्यर्थः, गुणश्रिया-गुणेन श्रिया च, पक्षे व्याकरणकारकृतगुणसंज्ञकेन एकारेण नकार लक्ष्मीवाचकेन इकारेण मकारम् , यद्वा मध्यस्थस्योभयत्र सम्बन्धादू गुणस्य गुणसंज्ञकस्य एकारस्य शोभया, आयोज्य स्पर्शभावं-स्पृश्यतां पक्षे व्याकरणकारकृतस्पर्शसंज्ञा ये नयन्ति, लोके हि वर्णवर्गान्तवर्तिनश्चण्डालादयो न गुणधीयुक्ता भवन्ति नवा स्पृश्यतां प्राप्नुवन्ति, अत्र कथमिग जातमित्याश्चर्ये सति समाधानहेतुमाह-निजनामालम्बिनौ-निजम् आत्मीयं 'नेमि' इति यन्नाम तदवलम्बिनौ यतस्ततस्तादृक् स्वरूपं जातमिति भावः । ननु लक्ष्मीवाचक ईकारो दृश्यते न तु इकार इति कामवाचकस्य इकारस्य कथं लक्ष्मीवाचकत्वमिति चेदुच्यते, ईश्च इश्च एतत्समाहारः 'इ' इति पूर्व निष्पाद्यम् , ततो द्वयोःस्थाने निष्पन्न आदेशोऽन्यतरव्यपदेशभागिति न्यायेन इकारस्यापि लक्ष्मीवाचकत्वम्, यद्वा गुणस्य श्रिया इति द्वितीयपक्ष आदरणीयः ॥१५-१६॥ - पराग:-परागाभिधा विवृतिः, मकरन्दश्च, उपलक्षणत्वान्मकरन्दसहितकुसुमादिः । तत्र विवृतिपक्षे-न परागः परागाभिधविवृतिभिन्न इति विरोधस्तदुद्धारे चाकारविश्लेषण अनपरागः-न अपगतो रागो यस्मात् स तथा, असुवर्ण:काञ्चनभिन्नोऽपि, सुवर्णकः काञ्चनमय इति विरोधस्तत्परिहारे नत्रः कुत्सार्थत्वात् कुत्सितं सुवर्ण काञ्चनं येन सोऽसुवर्णः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 84