Book Title: Tilak Manjri Author(s): Dhanpal, Padmasagar, Lavanyasuri Publisher: Jain Granth Prakashak Sabha View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [टिप्पनक-टीका-विवृतिविभूषिता 卐 विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ यस्माद् बोधति चेदकं कुवलयं यस्तारकाल्याऽश्चितः, सर्वाशासुखसम्पदुल्लसनकृद् नित्यं सुधामाश्रयन् । यश्चञ्चद्हरिणाङ्कितः शमनिधिः सद्वृत्तसौभाग्यभूः, वन्देऽज्ञानतमोऽपनोदनकृते वीरं तमीशं सदा ॥ ७ ॥ शार्दूलविक्रीडितम् ॥ लसन्ती या नित्यं सरससुमनोमानसमिता, जडोल्लासी पक्षैः विलसितमरुद्धिः शुचितरैः । कलवाना दीव्यद्गतिरुपनता मौक्तिकफलैः, सदा जैनी वाणी सुजयति मरालीव नितराम् ॥ ८ ॥ शिखरिणी ॥ पूज्यः श्रीयुतवृद्धिचन्द्र इह स प्रद्योतते पुण्यकच्चाकोरामदवृद्धिचन्द्र इव यश्चन्द्रश्च शान्त्याकरः । सिद्धान्तोदधिवृद्धिचन्द्र उपमा-तीतः सतां हृत्सरः-- सम्वित्कैरववृद्धिचन्द्र उदिते पापातपे वारिदः ॥ ९ ॥ शार्दूलविक्रीडितम् ॥ ॐ परागविवृतिमङ्गलाचरणटिप्पनिकाम वीरं महावीरजिनम् । तमीशं चन्द्रम् । तत्र श्रीमहावीरपक्षे-बोधति बोधं प्राप्नोति, इदमेव इदकम् । कुवलयंभूवलयम् । तारकाल्या तारकाणां संसारसागरात् तारकाणां मुनिजनानाम् आल्या पङ्क्तया । सर्वाशासुखसम्पदुलसनकृत्सर्वेषाम् आशा अभिलाषा सुखं प्रसिद्धं सम्पत् सम्पत्तिस्तेषामुल्लसनकृत् । सुधामाश्रयन्-सुधाम मोक्षरूपमुत्तम स्थानं शोभनं तेजो वा आश्रयन् । चञ्चद्धरिणाङ्कितः चञ्चन् यो हरिः सिंहस्तेनाङ्कितश्चिह्नितः, उत्तमसिंहलाञ्छन इत्यर्थः । शमनिधिः शमस्य निधानम्, सद्वृत्तसौभाग्यभूः सद् उत्तमं यद् वृत्तमाचारः सौभाग्यं च तस्य भू: स्थानम् । वन्दे= स्तौमि नमामि च । अज्ञानतमोऽपनोदनकृते अज्ञानरूपं यत्तमस्तस्यापनोदनकृते दूरीकरणाय । तमीशं तम् ईशमीश्वरम् । चन्द्रपक्षे बोधति-विकाशं प्राप्नोति, कुवलयं चन्द्रविकाशिकमलम् , तारकाल्या ताराणां पङ्क्तया सर्वाशासु-सर्वासु दिक्षु । खसम्पदुल्लसनकृत् खस्य गगनस्य या सम्पद् ज्योत्स्नारमणीयत्वादिरूपा सम्पत्तिस्तदुल्लसनकृत् । सुधाम् अमृतम् आश्रयन् , चञ्चद्धरिणाङ्कितः चञ्चन् यो हरिणो मृगस्तेनाङ्कितः । शमनिधिः शीतलतानिधानम् । सवृत्तसौभाग्यभूः सद् उत्तम यद् वृत्तं गोलाकारस्तस्य यत् सौभाग्यं तस्य भूः स्थानम् । वन्दे शमादिगुणकलितत्वेन स्तौमि । अज्ञानतमोऽपनोदनकृते= न विद्यते ज्ञानं येन तादृशं यत् तमोऽन्धकारं तस्यापनोदनकृते दूरीकरणे, वीरं वीरताशालिनम् । तमीशंकरात्रीशं चन्द्रम् ॥७॥ मरालीव हंसीव जैनी जिनेश्वरस्य वाणी सुजयतीत्यन्धयः । तत्र वाणीपक्षे सरससुमनोमानसमिता-सरसं प्रशमादिरसयुक्तं सुमनसां देवानां विदुषां वा यद् मानसं मनस्तद् इता प्राप्ता सती यद्वा तादृशमानसेन मिता प्रमाज्ञानविषयीकृता सती लसन्ती विलासं कुर्वाणा । शुचितरैः-विशदैः, विलसितमरुद्भिः= विलसिता मरुतो देवा यैस्तादृशैः पक्षैः नयवादैः, जडोल्लासी-जडानां मुर्खाणामपि उल्लासप्रदा । कलध्वाना=कलो मनोज्ञो ध्वानो नादो यस्याः सा तथा । दीव्यद्गतिः दीव्यन्ती गतिर्देवगत्यादिरूपा यद्वा गत्यर्थानां ज्ञानार्थत्वाद् गतिर्ज्ञानं यया सा तथा । मौक्तिकफलैः मुक्तिसम्बन्धिफलेः, उपनता सहिता । हंसीपले सरससुमनोमानसम्-सरसं प्रशस्तजलयुक्तं सुमनसां देवानां यद् मानसं मानसाभिधसरोवरम् , तद् इता-- प्राप्ता सती बिलसन्ती-विलासं कुर्वाणा, शुचितरः-विशदैः, विलसितमरुद्भिः विलसितो मरुद् वायुयस्तैस्तथा । पक्षः= अर्थवशाद् वचनविपरिणामेन पक्षाभ्यां पतत्त्राभ्याम् ॥ जडोल्लासी डलयोरक्याद् जलोल्लासी । दीव्यद्गतिः-दीव्यन्ती गतिगमनं यस्याः सा तथा । मौक्तिकफलैः मुक्ताफलैः ॥८॥ For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 84