Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी ] ॐ विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ विस्फूर्जत्स्फीतवाचो नवसुरकुरुहः प्राणिनां वाञ्छितार्थदानेमीनः सदावस्थितिकृत उदरे शान्तिसिन्धोविहाय । कान्तां भौगी च राजी मदनमदजितस्तीर्थराजः प्रभास, आधिव्याधिप्रहीणं शमधि विदधतामक्षरस्थानमिज्यम् ॥ ४ ॥ स्रग्धरा ॥ जडप्रधानोऽपरभङ्गगोऽपि, सपङ्कजातः सगरान्वयोऽपि । नीचः प्रकृत्या मृततां गतोऽपि, सप्ताम्बुराशिप्रकरः पृथिव्याम् ॥ ५ ॥ उपजातिः ॥ यच्छत्रसप्तस्फटशालिनागा-धिराजदम्भात् कृतसेवनातः । महाशयत्वं च जगाम नित्यं पायादपायाजिनपः स पार्श्वः ॥६॥ उपजातिः॥ युग्मम् ॥ परागविवृतिमङ्गलाचरणटिप्पनिका ॥ नेमीनः नेमिश्चासौ इनश्च नाथश्च नेमीनः, नेमिनाथ इत्यर्थः, तीर्थराजः तीर्थराजशब्दस्य प्रथमाबहुवचनम्, तीर्थकरा इत्यर्थः। तत्र नेमिनाथपक्षे विस्फूर्जत्स्फीतवाचः विस्फूर्जन्ती स्फीता वाचा यस्य स तथा, भागुरिमते व्यञ्जनान्तस्त्रीलिङ्गशब्दानामावन्तत्वस्वीकाराद् वाचाशब्दः। प्राणिनां वाञ्छितार्थदाः-वाञ्छितार्थदायकः, नवसुरकुरुहः-नवोऽगोचरवस्तुदातृत्वादभिनवः, सुराणां देवानां कुरुहो वृक्षः, उपमाया गम्यमानत्वात् कल्पतरुसदृश इत्यर्थः । यद्वा अनवो जीर्णो हीनप्रभावतया तुच्छः सुरकुरुहः कल्पतरुयेन स तथा । शान्तिसिन्धोः शमसागरस्य, उदरे मध्ये, सदावस्थितिकृतः सदा नित्यं वो युष्मभ्यम्, एतद् अक्षरस्थानं विदधतामित्यप्रेतनेन योज्यम् , कृता स्थितिर्येन स तथा । कृतशब्दस्य परनिपातः । कान्तां मनोज्ञां नारों वा, भौगी भोगराजपुत्रीं भोगसम्बन्धिनी वा, राजी राजीमतीनाम्नी पति वा । मदनमदजितः=जितो मदनमदो येन स तथा, जितशब्दस्य परनिपातः । तीर्थराजः तीर्थस्य राजा तीर्थराजः, तीर्थकर इत्यर्थः । प्रभासः प्रकृष्टो भासो यस्य स तथा । आधिव्याधि. प्रहीणं शमधि-शमनिधानम् , इज्यं पूज्यम् , अक्षरस्थानं मोक्षस्थानं, विदधतां-कुर्वताम्, 'दधि' इत्यस्यैकवचनम् । तीर्थकराणां पक्षेऽयं विशेषः बहुवचनसम्पादनार्थ वाचाशब्दस्थाने वाचशब्दः, कुरुहशब्दस्थाने कुरुड्शब्दः, कृतशब्दस्थाने कर्तृक्विबन्तकृत्शब्दः, जितशब्दस्थाने कर्तृक्विबन्तजित्शब्दः, विदधताम् इति 'डुधांग्क् ' इत्यस्य बहुवचने रूपम् , तथा वान्छितार्थदानेऽमी तीर्थकराः, नोऽस्मभ्यमिति, सदाऽवस्थितिकृत इति च विश्लिष्यार्थयोजना विधेया, तथा कान्तां मनोज्ञाम् , भौगी= भोगसम्बन्धिनीम्, राजी-पङ्क्तिम् ॥४॥ ___ सप्ताम्बुराशिप्रकरः=सप्तानां समुद्राणां निकरः, समुद्राणां संख्यातीतत्वेऽपि लौकिकैः सप्तानामेव द्वीपसमुद्राणामङ्गीकारात् कविजनरूढ्या सप्तग्रहणम् । जडप्रधानः मूर्खशिरोमणिः, पक्षे डलयोक्याद् जलप्रधानः । अपरभङ्गगोऽपि= अपरेण यो भङ्गो विनाशस्तद्गोऽपि,पक्षे अपराअनुत्तरा ये भङ्गास्तरङ्गास्तद्गोऽपि। सपङ्कजातः पङ्कस्य कर्दमस्य जातेन समुदायेन सहितः, पक्षे पङ्कजातैः कमलैः सहितः । सगरान्वयोऽपि गरं विषं तेन सहितोऽन्वयोऽस्य स तथा, पक्षे कविजनरूळ्या सगरजन्मा । प्रकृत्या खभावेन, मृतता=मरणभावम् , पक्षे अमृततां-पीयूषसमुदायम् । पार्श्वनाथप्रभोः शिरस उपरि नागेन्द्रेण सप्तफणामयं छत्रं धृतमिति वृत्तमाश्रित्योत्प्रेक्षते-यच्छत्रेत्यादि । नेद नागेन्द्रनिर्मितं सप्तफणामयं छत्रमपितु तद्व्याजेन सप्ताम्बुराशिप्रकरः सेवते । व्याजकृतसेवया किं फलं जातमित्याकाक्षायामाह-महाशयत्वं-महान् आशयोऽभिप्रायो यस्य तस्य भावं तथा, पक्षे महांश्चासौ आशयश्च जलस्थानं च महाशयस्तस्य भावं तथा। जगाम-प्राप्तः, अत एव महाशयसंज्ञा जातेति भावः । अपायात्-विघ्नात् ॥५-६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 84