Book Title: Tilak Manjri Author(s): Dhanpal, Padmasagar, Lavanyasuri Publisher: Jain Granth Prakashak Sabha View full book textPage 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ॐ अर्ह नमः। श्रीजिनेन्द्रशासनैकरसिक--धाराधीशासादितसरस्वतीबिरुदकवीन्द्र-विप्रामणी-परमार्हत-श्रीधनपालेन धीमता रचिता ॥ तिलकमञ्जरी॥ सवः पातु जिनः कृत्स्न-मीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैक--जन्तोर्व्याप्तं जगत्रयम् ॥१॥ मविपुलावृत्तम् ॥ 卐 विबुधशिरोमणिधीशान्त्याचार्यविरचितं टिप्पनकम् ॥ सम्यग् नत्वा महावीरं रागादिक्षयकारणम् । उत्पन्नानन्तविज्ञानं देवपूज्यं गिरीश्वरम् ॥ १ ॥ तिलकमञ्जरीनाम्न्याः कथायाः पदपद्धतिम् । श्लेषभङ्गादिवैषम्यं विवृणोमि यथामति ॥ २ ॥ ॥ श्रीमत्पद्मसागरविबुधरचिता टीका ॥ श्रेयःसिद्धमतिर्वीर-स्तन्याद्धन्यार्चितक्रमः । यदंहिपावितां पृथ्वी-मिव मूर्नाऽहिराड् दधौ ॥ १ ॥ तं प्रणम्य महावीरं, नम्राखण्डलमण्डलम् । धनपालकृताख्यान--व्याख्यानं तन्यते मनाक् ॥ २ ॥ श्रीमद्विजयसेनाख्य-सूरीणामुपदेशतः । स्तम्भतीर्थपुरे व्याख्या, कुरुते पद्मसागरः ॥ ३ ॥ श्रीतपोगच्छाधिपति-सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-जगद्गुरु--श्रीविजयनेमिसूरीश्वरपट्टालंकारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालंकृतेन श्रीविजयलावण्यसूरिणा प्रणीता परागाभिधा विवृतिः । लोकालोकावलोके विलसति विमला केवलाचिर्यदीया, देवादेवाधिदेवररचि च चरणा-र्चा च नित्यं यदीया । गावो नावो नवीना धनभवजलधेस्तारणेऽरं यदीया, आप्ताः प्राप्ताः शिवं ते जिनवरप्रवरा नो नयन्तां शमालिम् ॥१॥ स्रग्धरा ॥ लब्धानल्पार्थसार्थो मकरधिमधरीकृत्य यः सत्तयाऽऽस्ते, उद्यत्कलोलमालाऽपि जडपरिणतिर्गाहते यं च नित्यम् । सद्वंशो वारिराशौ सदमृतसरणिं संसृतौ संश्रितोऽस्तु, पोतः श्रीनाभिसूतो विलसनवसतिर्धीवराणां नराणाम् ॥ २॥ स्रग्धरा ॥ ॐ परागविवृतिमङ्गलाचरणटिप्पनिका ॥ आदिनाथपक्षे__लब्धानल्पार्थसार्थः गृहवासापेक्षया भूपालाग्रणीत्वाद् लब्धः प्राप्तोऽनल्पो विपुलोऽर्थसार्थो धनधान्याद्यर्थसंचयो येन स तथा, यद्वा गृहवासेऽपि ज्ञानत्रयकलितत्वाद् लब्धो ज्ञातोऽनल्पो विपुलोऽर्थसार्थो वाच्यनिकरो येन स तथा, यद्वा कैवल्यापेक्षया लब्धो ज्ञानदर्शनाभ्यां सम्यग ज्ञातोऽनल्पः सकलोऽर्थसार्थः पदार्थसमुदायो येन स तथा । मकरधि%3D मदनम् , अधरीकृत्य-हीनं कृत्वा, पराजित्येत्यर्थः, सत्तया-उत्तमतया, आस्ते=विराजते । उद्यत्कलोलमाला उद्यन्ती For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 84