Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 501
________________ हेत्वाभासप्रकरणे सव्यभिचारः 483 आह - तावतापीति टीका / तथा च सत्प्रतिपक्षे द्वौ हेतू एकोऽसाधारणे चेत् हेतुरिति विरोधिपरामर्शद्वयं चोभयत्रावशिष्टं तदाऽसाधारणः सत्प्रतिपक्षविशेषः स्यात् न तु हेत्वाभासान्तरमित्यर्थः / अत्राशङ्कते - [247 B]न चेति टीका / उभयपरामर्शविषयतापन्नं प्रतिसाधनं सत्प्रतिपक्षः / उभयोः परामर्शयोः विषयतापन्नमेकं साधनं तस्य प्रतिकूलं साधनं प्रतिसाधनम् / यथा शब्दोऽनित्यः श्रोत्रग्राह्यत्वात् शङ्खादिध्वनिवत्, स च सर्ववादिनामनित्य एव वर्णात्मकस्तु नित्यः इत्यत्र एकः परामर्शः अनित्यत्वव्याप्यश्रोत्रग्राह्यत्ववान् अयम् / द्वितीयस्तु - शब्दो नित्यः अनित्यविशेषगुणासमानाधिकरणविभुविशेषगुणत्वात् ईश्वरज्ञानादिवत् इति, अस्मदाद्यनित्यज्ञाने व्यभिचारवारणायानित्यविशेषगुणासमानाधिकरणेति पदम्, अस्मदादिज्ञानम् अनित्यविशेषगुणा: सुखादयः तैः समानाधिकरणमिति तद्वयुदासः, अत्रान्वयव्याप्तिग्रह ईश्वरज्ञाने, तत ईदृशः परामर्शः नित्यत्वव्याप्यानित्यविशेषगुणासमानाधिकरणविभुविशेषगुणत्ववान् अयम् इति / सत्प्रतिपक्षे हेतुभेदः / असाधारणे तु शब्दोऽनित्यः शब्दत्वात् इत्यत्रान्वयदृष्टान्ताभावेनानित्यत्वव्यापकाभावप्रतियोगिशब्दत्ववान् अयम् इति परामर्शो विपक्षव्यावृत्तत्वेनेत्येकः, द्वितीयस्तु सपक्षव्यावृत्तत्वेन अत्रापि अन्वयदृष्टान्ताभावात् नित्यत्वाभावव्यापकाभावप्रतियोगिशब्दत्ववान् अयम् इति / एतावताऽयमसाधारणः सत्प्रतिपक्षविशेष एव स्यात्, न तु स्वतन्त्रो हेत्वाभासः / तथा च विरोधिपरामर्शविषयत्वं सत्प्रतिपक्षे दूषकताबीजम्, असाधारणे च सपक्षविपक्षव्यावृत्तत्वज्ञानमिति भिन्नमेव दूषकताबीजमिति भिन्नो हेत्वाभासोऽसाधारणः / नन्वसाधारणे सपक्षविपक्षव्यावृत्तत्वं चेत् दूषकताबीजं तदा कथं सपक्षविपक्षव्यावृत्तत्वज्ञानमात्रमनुमितिप्रतिबन्धकं स्यादित्यत आह - तज्ज्ञानस्येति। तथा च तज्ज्ञानस्य सपक्षविपक्षव्यावृत्तत्वज्ञानस्य या दूषकता सा तज्ज्ञानस्य सपक्षविपक्षव्यावृत्तत्वज्ञानस्य व्यतिरेकोभयसहचारग्रहरूपतया / कोऽर्थः ? विपक्षव्यावृत्तत्वज्ञानं यत् वर्तते तत् साध्यव्यतिरेकसहचारग्रहरूपम् यथा यत्रानित्यत्वाभावस्तत्र शब्दत्वाभावः यथा गगने / एवं सपक्षव्यावृत्तत्वज्ञानं यत् वर्तते तत् साध्याभाव्यतिरेकसहचारग्रहरूपं भवति, यथा यत्रानित्यत्वं तत्र शब्दत्वाभाव इति साध्याभावव्यतिरेकसहचाररूपं भवति / तथा चोभाभ्यां सहचारग्रहाभ्यामुभयविरोधिपरामर्शी द्वौ उत्पद्यते इति विरोधिपरामर्शोत्थापनद्वारा असाधारणस्य दूषकत्वम् / तथा च सत्प्रतिपक्षे विरोधिपरामर्शद्वयं दूषकताबीजम्, असाधारणे तु सपक्षविपक्षव्यावृत्तत्वज्ञानं दूषकताबीजम् इति दूषकताबीजभेदात् अवश्यं सत्प्रतिपक्षासाधारणयोर्भेद इति [248 A] उभयत्राप्यनुमितिप्रतिबन्धकत्वसाम्येऽपि एतद्रूपेण भेदः / साध्या(ध्य)साध्याभावोपस्थापकत्वाने (त्रै)का अनुमितिरिति भावः / एतत्पर्यन्तं न चोभयपरा[माशे(शें)त्यारभ्य सत्प्रतिपक्षासाधारणयोर्दूषकताभेदनिरूपणं कस्यचिन्मतभेदेन दर्शितम्, इदं मतं दूयषितुमाह - एवं हीति टीका / यदि असाधारणस्य विरोधिपरामर्शोत्थापकतया दूषकत्वं

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620