Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ हेत्वाभासप्रकरणे बाधः 591 पेक्षयाऽगृह्यमाणविशेषं सत् अनुमितिप्रतिबन्धकं भविष्यति सत्प्रतिपक्षवत् इत्याशयेन शङ्कते - न चेति / समाधत्ते - रजतेनेति / तथा च रजते प्रथमतो नेदं रजतमिति ज्ञानं जातं पश्चात् रजतत्वव्याप्यज्ञानं चेत् जातं तदा अथ च शो पीतत्वज्ञाने भ्रमरूपे विद्यमाने श्वैत्यव्याप्यशङ्खत्ववान् अयम् इति प्रत्यक्षे विशेषदर्शने रजतत्वस्य शुक्लत्वस्य चानुमानात् शुक्लत्वाभावज्ञानं रजतत्वाभावज्ञानं परिभूयैव विशेषदर्शनेन रजतत्वव्याप्यतथाविधरजतोज्ज्वलरूपवत्त्वेन [301 A] रजतप्रत्यक्षं श्वैत्यव्याप्यशङ्खत्वेन च श्वैत्यानुमानात्(नम्) / तस्मात् साध्यव्याप्यज्ञानापेक्षया साध्य(ध्या)भावज्ञाने प्रमात्वरूपं बलं वक्तव्यमेमे(वे)ति / दृष्टान्तान्तरमप्याह - वादीति / तथा च यदि साध्याभावज्ञानमात्रमनुमितौ प्रतिबन्धकं तदा वादिवाक्यात् साध्याभावज्ञानं जातं तदाऽनुमितिप्रतिबन्धात् अनुमानमात्रोच्छेदप्रसङ्ग स्यात् / तस्मात् साध्याभावज्ञाने प्रमात्वग्रहो बलम्, तथा च पूर्वं साध्याभावप्रमात्वज्ञानं भवति तदैव व्यभिचार इति साध्याभावप्रमात्वरूपो बाधो व्यभिचारे उपाजीव्यः], अन्यथा साध्यव्याप्यहेतुज्ञानं साध्याभावज्ञानं परिभूय साध्यानुमितिमेव कुर्यादिति भावः। ___ अथ पक्षे साध्याभावप्रमैव साध्याभावहेतुविषया व्यभिचारज्ञानत्वेन दोषः न तु तस्याः प्रमात्वज्ञानमपीति चेत्, तर्हि प्रमायाः अप्रमात्वज्ञाने भ्रान्तानुमितिर्न स्यात् न स्याच्च पक्षे साध्याभावज्ञानप्रमात्वभ्रमादनुमितिप्रतिबन्धः / ननु उपजीव्यत्वेऽप्यत्र साध्याभावप्रमेति ज्ञानं न स्वतो दूषकं किन्तु क्लृप्तत्वात् पक्षे साध्याभावनिश्चयं कुर्वत् व्यभिचारज्ञानद्वारा इति चेत् / न / .. अथ व्यभिचारात् बाधस्याभेदमाशङ्कते - अथेति / साध्याभावप्रमैव हेतुविषयिणी सती व्यभिचारज्ञानत्वेन दोषोऽस्तु, त्वयोच्यते - साध्याभावज्ञानस्य प्रमात्वेन ग्रहः प्रतिबन्धकः किमर्थं, तथा च व(बा)धोऽपि व्यभिचार एवेत्याशङ्कार्थः / समाधत्ते - तीति / तथा च साध्याभावप्रमायाम् अप्रमात्वज्ञाने जाते सति या भ्रमरूपाऽनुमितिर्जायते सा न स्यात् / इदं साध्याभाववति हेतुज्ञानमप्रमा इति ज्ञाने विद्यमानेऽयोगोलकादौ वह्रिना या भ्रमरूपाऽनुमितिः सा न स्यात् यतः साध्याभावज्ञाने प्रमात्वग्रहो नोपजीव्यः किन्तु शुद्धा या साध्याभावप्रमा सैव हेतुविषयकत्वेन हेतुविषयिणी व्यभिचारज्ञानत्वेनैव प्रतिबन्धिका स्यात् इति तत्र अप्रमात्वग्रहे विद्यमानेऽनुमितिर्जायते सा न स्यादिति भावः / शङ्कते - नन्विति / साध्याभावप्रमाया ज्ञानं स्वतो न दूषकम् / कुत इत्यत आह - किन्त्विति / व्यभिचारज्ञानं प्रतिबन्धकत्वेन क्लृप्तं वर्तते इति कृत्वा साध्याभावनिश्चयं कुर्वत् बाधज्ञानं व्यभिचारज्ञानत्वेनैव प्रतिबन्धकं न तु बाधत्वेन, ततो बाधो व्यभिचार एवेत्यर्थः।
Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620