Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ हेत्वाभासप्रकरणे बाधः 593 विद्यमाने पक्षवृत्तिना धूमेनाप्रसिद्धवह्निवत् प्रसिद्धो महानसीयवह्निः कुतो न साध्यते इति / तस्मात् महानसीयः प्रसिद्धो वह्निर्बाधादेव न सिध्यति तथा च महानसीयवह्निः पर्वते नास्तीति तस्य तत्र बाध एव हेत्वाभासः / अत्राशङ्कते - प्रसिद्धेति / तथा च महानसीयवह्नयभाववति पर्वते धूमस्य विद्यमानत्वात् व्यभिचारादेव न सिध्यतीति किं बाधेनेति शङ्कार्थः / दूषयति - तीति / यदि धूमो महानसीयवह्नयभाववति वर्तमानो महानसीयवहिँ न साधयति पर्वतीयवह्नयभाववति महानसे धूमस्य विद्यमानत्वात् पर्वतीयवह्वेरपि सिद्धिर्न स्यात् व्यभिचारात् तज्ज्ञानादिति / महानसीयवढ्यभावे विद्यमाने धूमस्य सत्त्वेऽन्यथोक्तप्रकारेण वा यद् व्यभिचारज्ञानं तन्न दोषाय तज्ज्ञाने विद्यमानेऽप्यनुमितेर्जायमानत्वात् इत्यर्थः / अथ पक्षवृत्तेरन्य एव धूमादिः सपक्षे, तर्हि गोत्व-पृथिवीत्व-द्रव्यत्वादेरप्रसिद्धसास्नाद्यनुमानं न स्यात् सास्नादिप्रत्येकव्यभिचारात् / यदि च साध्यतावच्छेदकसास्नात्वादिसामान्यावच्छिन्नप्रतियोगिताकाभाववति न गोत्वादिकमिति न व्यभिचारः, तर्हि धूमेऽप्येवंव्यभिचाराभावात् साध्यतावच्छेदकेन प्रकारेणाप्रसिद्धमिव प्रसिद्धमपि साध्यं धूमगोत्वादिकं साधयेत् यदि बाधो न दोष इति वयम्। शङ्कते - अथेति / तथा च पर्वतीयधूमस्य महानसीयवह्नयभाववति विद्यमानत्वात् महानसीयवह्निना सह व्यभिचारात् धूमोऽपि महानसीयवह्निमेव न साधयति / पर्वतीयवह्निना सह पर्वतीयधूमस्य व्यभिचार एव नास्तीति पर्वतीयवह्रिसिद्धिरप्रत्यूहैवेत्यर्थः / समाधत्ते - तीति / इयं सास्नादिमती गोत्वात् मदीयगोवत्, अत्र गोत्वं पक्षसपक्षसाधारण एक एव हेतुः, तथा च दृष्टान्ते या सास्नादिव्यक्तिस्तदभाववति पक्षे हेतोर्विद्यमानत्वात् व्यभिचारः स्यात् / ततो गोत्वादिना सास्नानुमानं न स्यात्, एवं पृथिवीत्वेन हेतुना गन्धानुमानं द्रव्यत्वेन च संयोगानुमानं न स्यात् गन्धाभाववति घटादौ पृथिवीत्वस्य विद्यमानत्वात् एवं घटसंयोगाभाववति पटे द्रव्यत्वस्य विद्यमानत्वात् / अप्रसिद्धेति / अप्रसिद्ध नाम पक्षीयसाध्यसाधनानुमान न स्यात् / सास्नादि(दी)त्युपलक्षणं गन्धसंयोगादिरपि प्रत्येकं व्यभिचारात् / शङ्कते - यदीति। यदि साध्यतावच्छेदकावच्छिन्नसाध्याभाववति हेतोः सत्त्वं व्यभिचारः, एवं सति गोत्वादिकं यद्यपि तत्तत्सास्नाभाववति विद्यते तथापि सास्नात्वावच्छिन्नसास्नाभाववति तु गोत्वं न वर्तत इति कृत्वा न व्यभिचार इति / तदा धूमस्यापि वह्नित्वावच्छिन्नवह्नयभाववति अवर्तमानत्वात् न व्यभिचार इति, तथा च धूमे वहिव्यभिचारो [302 A] नास्ति पक्षधर्मता तु वर्तते, एवं च सति महानसीयवह्निः पर्वते न साध्यते धूमेन, तत्र किं नियामकमतस्तत्र नियामको बाध एवेत्यर्थः / अत्र मिश्राः - महानसीयवह्नः पर्वतेऽनुमितिः केन रूपेणापाद्यते ? यदि वह्नित्वेन रूपेण तदा महानसीयोऽपि
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9acba17a581e0e767a1d7a5c9721b07fcf9d13d5db6f4a66629fec23c3903766.jpg)
Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620