Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 612
________________ 594 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वह्निर्वह्नित्वेन रूपेण तत्र भासते एवेति इष्टापत्तिः / अथ महानसीयवह्नित्वेन रूपेण तदा तेन रूपेण व्याप्तिज्ञानमपि नास्ति यथा यत्र धूमस्तत्र महानसीयो वह्निरिति व्याप्तिर्नास्ति इति कृत्वा महानसीयवह्नित्वेन साध्यसिद्धिर्न भवतीति बाधावतार इति / अत्र शिरोमणिः समादधाति मणिकारमतम् / यदि वह्नित्वेन रूपेण धूमे वह्निव्याप्तिज्ञानं तदा तस्मात् व्याप्तिविशिष्टपक्षधर्मताज्ञानात् महानसीयवह्नित्वेन रूपेण महानसीयवह्नः सिद्धिः कुतो न भवति ?, न च महानसीयवह्नित्वेन रूपेण धूमे व्याप्त्यग्रहात् इति वाच्यम् / महानसीयवह्नित्वेन रूपेण व्याप्तिज्ञानाभावेऽपि लाघवाख्यतर्कात् महानसीयवह्नित्वेन रूपेण महानसीयवह्रिसिद्धिः कुतो न भवति / लाघवं यथा - पर्वतेऽक्लृप्तो वा वह्निः कल्पनीयः किं वा क्लृप्तः ?, महानसीयवह्निरेव कल्पनीय इति लाघवाख्यतर्कात् महानसीयवहिरपि सिध्यत्येव / अन्यथा ईश्वरानुमाने लाघवाख्यतर्कसहकारात् एकः कर्ता न सिध्येत् / सकर्तृकत्वेनैव रूपेण व्याप्तिज्ञाने विद्यमाने लाघवाख्यतर्कसहकारादेक एव कर्ता यथा सिध्यति तद्वत् वह्नित्वेन रूपेण वह्रिव्याप्तिज्ञानात् लाघवाख्यतर्कसहकारात् महानसीयवहिरपि कुतो न सिध्यतीति / बाधादेव न सिध्यतीति सुष्लूक्तं प्रसिद्धं बाधान्न सिध्यतीति। साध्याभाववन्मात्रसहचारो न व्यभिचारः साध्यप्रागभावध्वंसवद्वृत्तित्वेन व्यभिचारितया पृथिवीत्वादिना गन्धादेः द्रव्यत्वादिना गुणस्यानुमानभङ्गप्रसङ्गात्, किन्तु साध्यात्यन्ताभाववद्गामित्वम् एवं च स्वप्रागभावध्वंसावच्छिन्नतदाश्रये तत्प्रतियोगिसाधने पक्षे व्यभिचारो नेति बाधो दूषणम्। मतान्तरेण बाधं स्थापयति - साध्याभावेति / साध्याभाववन्मात्रवृत्तित्वं न व्यभिचारः / तथा च पृथिवीत्वेन गन्धानुमानं न स्यात् / गन्धप्रागभाववति पृथिवीत्वस्य विद्यमानत्वात् एवं गुणप्रागभाववति द्रव्यत्वस्य विद्यमानत्वात् पृथिवीत्वादिर्हेतुर्व्यभिचारी स्यात् / तर्हि को व्यभिचार इत्यत आह - साध्येति / तथा च साध्यतावच्छेदकावच्छिन्नसाध्याभाववद्वृत्तित्वं हि व्यभिचारः / तथा च गन्धवत्त्वावच्छिन्नगन्धाभाववद्वृत्तित्वं पृथिवीत्वस्य नास्ति इति कृत्वा न व्यभिचार इत्यर्थः / ततः किमित्यत आह - एवमिति / एवं सति गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वात् इत्यत्र पृथिवीत्वेन गन्धप्रागभावावच्छिन्ने घटें गन्धप्रागभावावच्छेदेन घटे गन्धानुमितिः कुतो न भवति व्यभिचाराभावात् / अतो गन्धप्रागभावकाले गन्धानुमितिर्बाधादेव न भवतीति बाधः पृथग् हेत्वाभास इति।। अथावच्छेद्ये सिद्धसाधनम्, अवच्छेदके हेत्वसिद्धिः, विशिष्टं च नान्यत् इति चेत् तर्हि प्रागभावध्वंसप्रतियोगिनोरेकवृत्तित्वेनैकसमयतापि स्यात्। .

Loading...

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620