Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 597 हेत्वाभासप्रकरणे बाधः न चाभावप्रमा तथा अपातः शङ्ख इति प्रमापयत एव पीतोऽयमिति भ्रमदर्शनादिति चेत्, न, विरोधिज्ञानं हि प्रतिबन्धकं, प्रत्यक्षभ्रमस्य च प्रत्यक्षप्रमा विरोधिनी, सा च शङ्खादौ दोषात् नास्त्येव, अनुमितौ तु अभावप्रमामात्रमेव विरोधीति कथमभावप्रमायां भावानुमितिरिति / स चायं दशविधः। मध्ये शङ्कते - न चेति / तथा ऽ(न) चाभावत्व(प्र)म(मा)रूपो बाधः प्रतिबन्धकः / दूषयति - अपीतेति / यथाऽपीतो नाम श्वेतः शङ्ख इति 'प्रमायामपि पीतः शङ्ख इति भ्रमोदयात् यद्यपि अनुमितिरूपो बाधस्तिष्ठति तथापि पीतभ्रमो जायत इति बाधज्ञानं प्रतिबन्धकं न भवतीति / समाधत्ते - विरोधिज्ञानं हीति। विरोधिज्ञानं प्रतिबन्धकम्, न च पीतः शङ्खः इति प्रत्यक्षस्य अनुमानि(न)[रूपं] श्वैत्यज्ञानम् अपीतत्वज्ञानं प्रतिबन्धकं किन्तु प्रत्यक्षमेव, तथा च यदिन्द्रियजन्यो भ्रमस्तदिन्द्रियजन्यं प्रत्यक्षमेव भ्रमविरोधि / ननु ग्राह्यप्रत्यक्षे ग्राह्याभावप्रत्यक्षं विरोधि, अनुमितावपि प्रत्यक्षन्यायेन ग्राह्याभावप्रत्यक्षमेव विरोधि वक्तव्यम् न त्वनुमितिः, तथा च बाधविषयकं ज्ञानमात्रं न प्रतिबन्धकमिति कृत्वा स हेत्वाभासो न स्यादित्यत आह - अनुमितौ इति / अनुमितौ प्रमात्वेन ज्ञातं साध्याभावज्ञानमात्रमेव प्रतिबन्धकम्, तथा च साध्याभावज्ञानमात्रस्यानुमितौ प्रतिबन्धकत्वात् बाधो हेत्वाभासः, स दशविधः। . धर्मिग्राहकमानबाधितं घटो व्यापकः सत्त्वात् इति प्रत्यक्षेण, परमाणवः सावयवा मूर्तत्वात् इति अनुमानेन, मेरुः पाषणमयः पर्वतत्वात् इति सुवर्णमयत्वबोधकागमेन / साध्यप्रतियोगिग्राहकबाधितं वह्निरनुष्णः कृतकत्वात् इति प्रत्यक्षेण, शब्दोऽश्रावणो गुणत्वात् इति अनुमानेन, गवयत्वं गवयपदाप्रवृत्तिनिमित्तं जातित्वात् इति उपमानेन। साध्यग्राहकबाधितं शुचि नरशिरःकपालं प्राण्यङ्गत्वात् इति अत्रागमेन / हेतुग्राहकबाधितं जलानिलौ उष्णौ पृथिवीतो विपरीतस्पर्शवत्त्वात् तेजोवत् इति प्रत्यक्षेण, मनो विभु ज्ञानासमवाय्याधारत्वात् इति अनुमानेन, राजसूयं बाह्मणकर्तव्यं स्वर्गसाधनत्वात् अग्निष्टोमवत् इति राजसूयकर्तव्यताबोधकागमेन इति। 1. अनुमानरूपायाम् / प्रतौ टिप्पणी। 2. ज्ञानसमवाय्याधारत्वात् इति मुद्रितपुस्तके।
Page Navigation
1 ... 613 614 615 616 617 618 619 620