Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 598 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका. __ [धर्मिग्राहकमानबाधितं त्रयम्।] घट इति। येन प्रत्यक्षेण घटो गृहीतस्तेनाव्यापक एवगृहीतः इति धर्मिग्राहकं यत् प्रत्यक्षं तद्बाधितसाध्यकः / [धर्मिग्राहकप्रत्यक्षबाधितम्] / / धर्मिग्राहकानुमानबाधितमाह - परमाणव इति / येन प्रमाणेन परमाणवः सिद्धास्तेन प्रमाणेन निरवयवा एव सिद्धाः, परमाणूनामपि सावयवत्वे मेरुसर्षपयोस्तुल्यत्वापत्तिः / 2 / धर्मिग्राहकागमबाधितमाह - मेरुरिति। आगमेन मेरुः सुवर्णमय एव सिद्धः / 3 / [साध्यप्रतियोगिग्राहकमानबाधितं त्रयम् / ] साध्येति / साध्यस्य यत् प्रतियोगि तद्ग्राहकेण बाधितम् / अनुष्ण इति / अनुष्णत्वं साध्यम्, तस्य प्रतियोगि उष्णत्वम्, तस्य ग्राहकं यत् प्रत्यक्षं तेन साध्यं बाधितम् / 4 / प्रतियोगिग्राहकानुमानबाधितमाह - शब्द इति / अश्रावणत्वस्य प्रतियोगि श्रावणत्वम् [303 B], तद्ग्राहकानुमानबाधितं यथा शब्दः श्रावणः अन्येन्द्रियाग्राह्यत्वे सति साक्षात्कारविषयत्वात् शब्दत्ववत् / 5 / प्रतियोगिग्राहकोपमानबाधितमाह - गवयत्वमिति / गवयपदप्रवृत्तिनिमित्तत्वाभावस्य प्रतियोगि गवयपदप्रवृत्तिनिमित्तम्, तद्ग्राहकमुपमानं यथागवयपदवाच्योऽयं पिण्डस्तेन गवयत्वमेव गवयपदप्रवृत्तिनिमित्तं गृहीतम्।६।साध्यग्राहकबाधितमाह-शुचीति।अशुचित्वग्राहक आगमस्तेनागमेन नरकपाले शुचित्वं बाधितम् / 7 / [हेतुग्राहकबाधितं त्रयम्।] हेतुग्राहकप्रत्यक्षबाधितमाह - जलानिलेति।अनहेतुः पृथिवीतो विपरीतः स्पर्शो हेतुः, तद्ग्राहकमनुष्णस्पर्शशीतस्पर्शग्राहकेणोष्णत्वग्राहकं बाध्यते / 8 / हेतुग्राहकानुमानबाधितमाह - मन इति ।ज्ञानस्यासमवाय्यथोऽऽत्ममनःसंयोगस्तदाधारत्वात् एकदा पञ्चज्ञानानुदयः स चात्ममनःसंयोगाभावनिमित्तक इति कृत्वा आत्मनो व्यापकत्वात् द्वितीयं यत् सम्बन्धि तद् अव्यापकं कल्पनीयमिति हेतुग्राहकांनुमानबाधितम् / 9 / हेतुग्राहकागमबाधितमाह - राजसूयमिति / राजसूयस्य स्वर्गा(1)साधनताबोधको य आगमस्तेन ब्राह्मणकर्तव्यता बाध्यते तत्र राजपदश्रवणादेव क्षत्रियकर्तव्यता / 10 / इति बाधग्रन्थः समाप्तः / / वा० [= वाचक] गुणरत्नेनातीवप्रयासेन सुखबोधिका निर्मिता / अतिप्रयासेन मया विनिर्मिता सुखि]बोधिका टिप्पनिका मुदैषा / ' चिन्तामणौ ग्रन्थमणौ निशम्य श्रीरामकृष्णाख्यमुखारविन्दात् // 1 // // समाप्त: अनुमानखण्डः बाधान्तः सुखबोधिकासहितः॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/966898480b7d48fe8ac2df6796d525252ff48b57fbaa8a080d52c013278c5661.jpg)
Page Navigation
1 ... 614 615 616 617 618 619 620