Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 614
________________ 596 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका कपिसंयोगात्यन्ताभावान्योन्याभावस्थले देशभेदः शाखादिरवच्छेदकोऽत्र तु कालभेदः / ननु तथापि गन्धप्रागभावज्ञाने विद्यमाने साध्यसन्देहघटिता पक्षतैव नास्ति यतो गन्धप्रागभावरूपावच्छेदकस्य निश्चयात् गन्धप्रागभावे विद्यमाने गन्धस्य सन्देहाभावात् आश्रयासिद्धिरेव न तु बाध इत्यत आह - असिद्धेरिति / तथा बाधेन पक्षता विघट्यते इति कृत्वा आश्रयासिद्धिः, अतो बाध आश्रयासिद्धेरुपजीव्यत्वात् पृथक् इत्यर्थः / न चैवमुपजीव्यत्वात् बाधवत् सिद्धसाधनमपि पृथक्, उपजीव्यत्वेऽपि स्वतोऽदूषकत्वात् / न हि साध्यज्ञानं तद्बुद्धिविरोधि, धारवाहिकज्ञानोदयात् / नाप्यनुमितिविरोधि अनुमित्सया प्रत्यक्षसिद्धेऽप्यनुमानदर्शनात्, तदुक्तं प्रत्यक्षदृष्टमप्यनुमानेन बुभुत्सन्ते तर्करसिका इति श्रवणानन्तरं मननदर्शनाच्च।। ___ अत्राशङ्कते - न चेति / बाधस्य पक्षताविघटनद्वारा आश्रयासिद्धौ चेदुपजीव्यत्वं तदा सिद्धसाधनस्यापि पक्षताविघटनद्वारा आश्रयासिद्धरुपजीव्यत्वात् पृथग् हेत्वाभासत्वं स्यात्, सिद्धसाधनं तु वस्तुगत्या न हेत्वाभास उपाधिवत् इत्याशङ्कार्थः / समाधत्ते - उपजीव्यत्वेऽपीति / उपजीव्यत्वेऽपि उपाधिवत् स्वतस्तस्य दूषकत्वं नास्ति / तदेवाह - न हीति / तद्बुद्धीति। सिद्धसाधनं साध्यबुद्धिमात्रविरोधि [303 A] न भवति / साध्यप्रत्यक्षानन्तरं वह्रिरूपसाध्यप्रत्यक्षानन्तरमपि वह्निप्रत्यक्षं जायत एव, धारावाहिकं तत् / नापीति / अनुमितावपि विरोधि न भवति, यथा एकवारमनुमितौ जातायामपि सिषाधयिषया पुनरप्यनुमितिर्जायते / प्रत्यक्षदृष्टमिति / प्रत्यक्षदृष्टेऽपि करिणि अनुमित्सया अनुमितिर्जायत एवेति। निश्चिते न्यायो न प्रवर्तते इति तु सिषाधयिषातिरिक्तस्थले ज्ञेयम् / श्रवणानन्तरमिति / आत्मा इतरभिन्न इति श्रवणानन्तरं शाब्दज्ञाने जातेऽपि अनुमित्सया मननरूपा अनुमितिर्जायत एवेति सिद्धसाधनं नानुमितिप्रतिबन्धकम्। तस्मात् सिद्धिमात्रार्थिन: सिद्धौ न तदिच्छा, सिद्धिविशेषार्थिनः सा अस्तीति तस्यानुमितिरेव, एवं च सिषाधयिषितपक्षविघटनद्वारा सिद्धसाधनं दूषणं न स्वतः / नन्वभावधीरपि न भावधीप्रतिबन्धिका, नेदं रजतमिति भ्रमानन्तरं रजतनिश्चयात्। तस्मादिति / वह्रिज्ञानमात्रे यस्येच्छा तस्य वह्रिज्ञानानन्तरं वह्रिज्ञाने इच्छा न जायते किन्तु वह्रिज्ञानविशेषेऽनुमित्यादौ इच्छा जायत एवेति। ततः किमित्यत आह - एवं चेति / तथा च सिद्धसाधनं नानुमितिमात्रे स्वतः प्रतिबन्धकं किन्तु सिषाधयिषितसाध्यघटितपक्षताविघटनद्वारा परमुखनिरीक्षकतया प्रतिबन्धकमिति न सिद्धसाधनं हेत्वाभासः / अथ बाधस्य हेत्वाभासत्वे शङ्कते - नन्विति / तथा च बाधोऽपि न प्रतिबन्धकः / कुतः ? नेदं रजतमिति भ्रमररूपबाधानन्तरम् इदं रजतमिति निश्चयोदयात् /

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620