Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 613
________________ हेत्वाभासप्रकरणे बाधः 595 अत्राशङ्कते - अथेति / घटः पक्ष(क्षः), गन्धप्रागभावकालोऽवच्छेदकः पक्षतावच्छेदकः। अत्रावच्छेद्ये पक्षे वा गन्धानुमितिरापाद्यते किं वा पक्षतावच्छेदके गन्धप्रागभावकाले वा गन्धानुमितिरापाद्यते / आद्ये यदि घटे गन्धानुमितिरापाद्यते तदा सिद्धसाधनम्, घटस्योत्पत्त्युत्तरक्षणे घटे गन्धानुमितिर्जायते एव / अवच्छेदके गन्धप्रागभावकाले यदि गन्धानुमितिरापाद्यते तदा हेत्वसिद्धिरित्यर्थः / न च गन्धप्रागभावविशिष्टे घटे गन्धानुमितिरापाद्यते इत्यत आह [302 B] - विशिष्टं चेति। तथा च विशिष्टस्यातिरिक्तत्वाभावात् नानुमितिः / समाधत्ते - तीति / एवं चेद्यदि त्वया गन्धप्रागभावकालावच्छिन्ने घटे गन्धो वर्तते एवेतीष्टापत्तिरुच्यते तदा गन्धप्रागभावकालावच्छिन्ने घटे गन्धो वर्तते इति कृत्वा यदि अनुमितिर्भवति तदा गन्धध्वंसावच्छिन्नेऽपि काले गन्धो वर्तते एवेति तत्राप्यनुमितिः स्यात् तथा च गन्धप्रागभावध्वंसगन्धयोरेककालता स्यादित्यर्थः। अथ यत्समयावच्छेदेन तत्र प्रागभावः प्रध्वंसो वा न तत्समयावच्छेदेन प्रतियोगीति चेत् तर्हि तदवच्छेदेन प्रतियोगिसाधने न सिद्धसाधनं किन्तु बाध एव, अन्यथा अन्योन्याभावात्यन्ताभावयोरप्यव्याप्यवृत्तित्वभङ्गः एकवृत्तित्वात् अवच्छेदकभेदेन वृतिरिहापि तुल्या तत्र देशभेदोऽवच्छेकोऽत्र तु समयभेद इति / असिद्धरपि बाध एवोपजीव्यः। / अत्राशङ्कते - अथेति। तथा च गन्धप्रागभावकालावच्छेदेन घटे गन्धो नास्ति एवं ध्वंसप्रतियोगिकालावच्छेदेन प्रागभावोऽपि नास्ति इति नैककालतेत्याशङ्कार्थः / समाधत्ते - तीति। तर्हि यादृशगन्धप्रागभावकालावच्छेदेन गन्धो न वर्तते तादृशकालावच्छेदेन गन्धसाधनं तु नास्ति किन्तु गन्धानुमितिर्न जायते बाधादेव तथा च गन्धप्रागभावगन्धयोरेकत्र घटे विद्यमानत्वेऽपि एककालावच्छेदेन विरोधात् भिन्नकालावच्छेदेन तूभयोरेकत्र सत्त्वात् न सिद्धसाधनं किन्तु बाध एवेत्यर्थः / अत्र दृष्टान्तमाह - अन्योन्येति। अन्योन्याभावात्यन्ताभावयोः, यथा कपिसंयोगवदन्योन्याभावः कपिसंयोगात्यन्ताभावश्च अनयोर्द्वयोः कपिसंयोगेन सह एकदेशावच्छेदेन शाखाद्यवच्छेदेन विरोधेऽपि भिन्नभिन्नावच्छेदेन एकत्र वृक्षे सत्त्वं वर्तत एव यथाऽग्रे वृक्षः कपिसंयोगवान् - मूले कपिसंयोगवान् न भवति, स एव वृक्षः संयोगवान् स एव च संयोगवद्भिन्नः, तथा च एकदेशावच्छेदेन विरोधेऽपि अवच्छेदकभेदेनाविरोधः, एवं सति संयागवति वृक्षे यदि संयोगवदन्योन्याभावो न वर्तते तदा तस्याव्याप्यवृत्तित्वं प्राचां मते न स्यादित्यर्थः / इयान् परं विशेषः प्रागभावस्थले इत्याह - तत्र देशभेद इति। 1. भावात्यन्ताभावयोरिति पाठः, भावस्य संयोगादेः तदत्यन्ताभावस्य चेत्यर्थः, अन्योन्यात्यन्ताभावयोरिति पाठस्तु प्रामादिकः इति मथुरानाथरहस्यटीकायाम् /

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620