Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 590 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ___ उच्यते / पक्षे साध्याभावनिश्चयः साध्याभावज्ञानप्रमात्वनिश्चयात्, ज्ञानमात्रादर्थनिश्चये प्रामाण्यग्रहवैयर्थ्यम्, अप्रमात्वेन ज्ञातादर्थनिश्चयप्रसङ्गश्च / तथा च उपजीव्यत्वेनाधिकबलत्वेन वा पक्षे साध्याभावज्ञानस्य प्रमात्वनिश्चये सव्यभिचारः नान्यथा इत्युभयथापि साध्याभावनिश्चयाधीनव्यभिचारज्ञानात् पूर्वं ज्ञातं साध्याभावज्ञानप्रमात्वमेव दोष उपजीव्यत्वात् / यदि च पक्षे साध्याभावज्ञानस्य प्रमात्वनिश्चयो नानुमितिविरोधी तदा व्याप्तिपक्षधर्मतया हेतुज्ञानं विशेषदर्शनत्वेन पक्षे साध्याभावज्ञानं परिभूय साध्यं साधयेदेव पर्वते धूम इव वह्निम्। अथ बाधसाधनार्थं सिद्धान्तमाह - उच्यते इति / पक्षे इति। यः पक्षे साध्याभावनिश्चयः स साध्याभावज्ञाने प्रमात्वनिश्चयादेव भवति यथा घटोऽयमति ज्ञानं जातं प्रमा वाऽप्रमा वेति संशये अर्थनिश्चयो न जायते इति कृत्वा तत्र प्रमात्वनिश्चयोऽपेक्षितः / प्रमात्वनिश्चयानपेक्षणे बाधकमाह - ज्ञानमात्रादिति / यदि ज्ञानमात्रादर्थनिश्चयस्तदा प्रामाण्यग्रहवैयर्थ्यं स्यात् / अप्रमात्वेनेति / यदि ज्ञानमात्रमर्थनिश्चायकं तदाऽप्रमात्वेन ज्ञानात् अर्थनिश्चयः स्यात् / ततः किमित्यत आह - तथा चेति / तथा च साध्याभावज्ञानस्यानुमितिप्रतिबन्धार्थं प्रमात्वग्रहः साध्याभावज्ञाने उपजीव्यः अथ च साध्यव्याप्यज्ञानापेक्षया हेतुज्ञानापेक्षया साध्याभावज्ञानस्य बलमधिकमपि प्रमात्वग्रह एवाधिकं बलम् ।तथा च साध्याभावज्ञानस्य प्रमात्वनिश्चये जाते सति व्यभिचारो भवतीति कृत्वा व्यभिचारे साध्याभावाज्ञानस्य] प्रमात्वं(त्व)ज्ञानमुपजीव्यमिति बाधः पृथग् हेत्वाभासः / उपसंहरति - उभयथापीति / व्यभिचारे उपजीव्यत्वेन साध्यव्याप्यहेतुज्ञानापेक्षया प्रमात्वज्ञानमधिकबलमित्युभयथापीत्यर्थः / तथा च साध्याभावज्ञाने प्रमात्वग्रहः सव्यभिचारे उपजीव्यत्वात् बाधः पृथगिति / अथ साध्याभावज्ञानस्य साध्याभावघटितव्यभिचारज्ञानस्य साध्यव्याप्यज्ञानापेक्षया बलमाह - यदि चेति / पक्षे इति / सुबोधः। तदेति / साध्य(ध्या)भावज्ञानं साध्याभावघटितव्यभिचारज्ञानं वा परिभूय साध्यव्याप्यज्ञानं विशेषदर्शनत्वेन साध्यं साधयेदेवेत्यर्थः / तथा च हेतुज्ञानापेक्षया साध्याभावज्ञाने प्रमात्वरूपं बलम् / न च साध्याभावबुद्धिरेवागृह्यमाणविशेषा सत्प्रतिपक्षवत् प्रतिबन्धिकेति वाच्यम्। रजते नेदं रजतमिति ज्ञानेऽपि विशेषदर्शनेन रजतत्वस्य शो पीतत्वज्ञाने शुक्लत्वस्य चानुमानात् वादिवाक्येन पक्षे साध्याभावज्ञानात् अनुमानमात्रोच्छेदप्रसङ्गाच्च / ननु साध्याभावज्ञाने प्रमात्वग्रहलक्षणस्याधिकबलस्य प्रयोजनं किम् ?, साध्य(ध्या)भावज्ञानमेव हेतुज्ञाना
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/12a9e18a5263da71723891ae08757716aee836562c6c60ff53258e3bd00f7d38.jpg)
Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620