Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 594
________________ 576 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका कृत्वाऽन्यतरत्वं भागासिद्धिवारकं विशेषणं तच्च व्यर्थमेव / भागासिद्धिवारकं विशेषणं व्यर्थं व्याप्तिग्रहानुपयोगित्वात् / व्यभिचारवारकमेव विशेषणं सार्थकं यतो व्याप्तिभङ्गो व्यभिचारेणैव भवति न तु भागासिद्धया भागासिद्धेऽपि व्याप्तिसत्त्वात् यथा ह्रदो वह्निमान् धूमात् इत्यत्र स्वरूपासिद्धेऽपि व्याप्तिसत्त्वात् / किञ्च दुषणान्तरमाह - हेत्वाभासेति / हेत्वाभाससामान्यलक्षणस्य किं प्रयोजनम् ?, हेत्वाभासान्तरे यौ बाधसत्प्रतिपक्षौ तव्यावृत्तमसिद्धस्य लक्षणं कर्तव्यम्, तच्च व्याप्तिपक्षधर्मतानिश्चयविरोधिरूपम्, तत् आश्रयासिद्धयादिकमेवेति पूर्वपक्षः / तथा चायं पूर्वपक्षार्थः / तथा च व्याप्तिपक्षधर्मताप्रमितिविरहरूपविशिष्टाभाव(वा)पेक्षया लाघवात् आश्रयासिद्धयादिकमेव प्रत्येकं दूषणमस्तु इति प्रघट्टकार्थः / उच्यते। आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्च प्रत्येकमेव दोषः प्रत्येक- . स्य ज्ञानात् उद्भावनात् चानुमितिप्रतिबन्धात्, न तु विशिष्टाभावः परामर्शविषयाभावो वा व्यर्थविशेषणत्वात् तस्य ज्ञानमुद्भावनं विनाप्यनुमितिप्रतिबन्धात् / अनुभवसिद्धे हि लक्षणम्, न तु लक्षणानुरोधेनानुभवकल्पना। परामर्शविषयाभावत्वेनानुगतेन त्रयाणामसिद्धत्वेन सङ्ग्रहो महर्षिणा कृत इति न विभागविरोधो हेत्वाभासाधिक्यं वा। उच्यते इति / सिद्धान्तिना इति शेषः / आश्रयासिद्धयादित्रिकस्य प्रत्येकदोषत्वे इष्टापत्तिमाह - प्रत्येकमिति / एतदर्थे उपोद्वलकमाह - प्रत्येकस्येति / तथा च न विशिष्टाभावो दूषणं किन्तु आश्रयासिद्धयादिकं प्रत्येकमेव दूषणम् / न त्विति / परामर्शविषयाभावलक्षणा याऽसिद्धिः सा दूषणं न भवति / परामर्शो नाम व्याप्तिपक्षधर्मता ज्ञानम्, तद्विषयाभाव इति तदपेक्षया व्याप्त्यभावः पक्षधर्मताभावश्च, इति लाघवात् प्रत्येक दूषणमस्तु, न त्वधिकं व्यर्थत्वात् इत्यर्थः / अत्रैव साधकमाह - तस्येति / तस्य [295 B] विशिष्टाभावस्य ज्ञानम् उद्भावनं विनाऽपि अनुमितिं प्रतिबध्नाति / यथाऽयं व्याप्तिपक्षधर्मताज्ञानविषयाभाव इति उद्भावनं विनापि अयमपक्षधर्मः अयमव्याप्तो हेतुः इति एतादृशज्ञानात् अनुमितिप्रतिबन्धात् प्रत्येकाभाव एव दूषणम् / ननु व्याप्तिपक्षधर्मताप्रती(मि)त्यभावोऽसिद्धिरित्येतल्लक्षणानुरोधेन विशिष्टाभाव एव दूषणं न तु प्रत्येकाभावो दूषणमित्यत आह - अनुभवसिद्ध इति / तथा च यादृशो दूषकतायामनुभवस्तादृशमेव लक्षणं कर्तव्यम् / अनुभवश्च प्रत्येकाभावज्ञानेनानुमितिप्रतिबन्धात् प्रत्येकाभाव एव दूषणम्, परं लक्षणानुरोधेन प्रतिबन्धकत्वकल्पनेत्येवं नास्ति / ननु तर्हि इदमाश्रयासिद्धयादित्रयं ते सव्यभिचारविरुद्धादयस्त्र(श्च) य इति कृत्वा सप्त हेत्वाभासा. रित्यत आह - परामर्शविषयाभावत्वेनेति / तथा च महर्षिणा परामर्शविषयाभावत्वेनोपाधिना त्रयाणामसिद्धत्वेन सङ्ग्रहः कृतः इति न विभागाधिक्यमित्यर्थः /

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620