Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 597
________________ हेत्वाभासप्रकरणे असिद्धिः 579 चानौपाधिकत्वलक्षणा या व्याप्तिः तस्या विरहो भिन्नः / अथ साध्यव्यापकसाधनाव्यापकरूपो यो धर्म उपाधिः स भिन्न इति कृत्वा व्याप्तिविरह उपाधिन भवति / ननु तर्हि उपाधिना अनौपाधिकत्वाभावानुमानं न स्यात् / यथा इदं व्याप्तिविरहवत् सोपाधिकत्वात् इत्यत आह - अपि त्विति / तथा च यत्रोपाधिस्तत्र व्याप्तिविरह [296 B] इति तन्नियतत्वं वर्तते न तु व्याप्तिविरहरूपवत्त्वमित्यर्थः।। न चैवमुपजीव्यत्वेन उपाधिर्हेत्वाभासान्तरम्, उपजीव्यत्वेऽपि स्वतोऽदूषकत्वेन तदर्थं परमुखवीक्षकत्वात् / न हि साध्यव्यापकाव्याप्यत्वमनुमितिविरोधि किन्तु व्यभिचारोन्नयनेन स्वव्यतिरेकेण सत्प्रतिपक्षतया वा। तदाह उपाधाववश्यं व्यभिचार उपाधेरेव व्यभिचारशङ्केति / अप्रयोजकान्यथासिद्धौ च सोपाधी नासिद्धौ / प्रतिकूलतर्कानुकूलतर्काभावी उपजीव्यत्वे सति स्वतो दूषकौ अपि न हेत्वाभासौ, स्वरूपसतोरेव प्रतिबन्धकत्वात् इति उक्तम्। - अत्राशङ्कते - न चेति / तथा च व्याप्तिविरहोनायकतया उपाधेाप्त्यसिद्धौ उपजीव्यत्वात् उपार्हेत्वाभासत्वं स्यात् इत्याशङ्कते - न चैवमिति / दूषयति - उपजीव्यत्वेऽपीति / यतः स्वतो यो दूषकः स एव हेत्वाभासः, उपाधेस्तु व्यभिचारोन्नयनरूपपरमुखनिरीक्षकत्वात् न हेत्वाभासत्वम्, तेदेवाह - न हीति / साध्यव्यापकाव्याप्यत्वं नाम साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिरूपं व्याप्तिविरहोन्नयनद्वारा एव दूषणम्, परं स्वतो नास्ति / तर्हि कथं दूषणमित्यत आह - किन्त्विति / तथा च यदा व्याप्तिविरहव्यभिचारा(रो)न्नयनं सत्प्रतिपक्षोत्थापनं वा करोति तदैव उपाधिर्दूषणं न तु स्वत इत्यर्थः / अत्र स्मृतिमाह - उपाधाविति / ननु अप्रयोजकांन्यथासिद्धरूपौ असिद्धौ कुतो नोदाहृतौ इत्यत आह - अप्रयोजकेति / अप्रयोजकः सोपाधिरेव / पर्वतः वह्निमान् पाषाणात् अयमप्रयोजको हेतुः, पाषाणं प्रति वह्निः प्रयोजको न भवति, अयमप्रयोजकः अथ च पाषाण(णः) वह्नि(ह्नि) विनापि अन्यस्मात् सिद्ध इति अन्यथासिद्ध इत्यर्थः / ननु प्रतिकूलतर्कः अनुकूलतर्काभावश्च इतीमौ द्वौ उपाधेरुपजीव्यौ स्वतो दूषकौ च कुतो नोद्दिष्टौ, यथाऽऽद्यः वह्निरस्तु धूमो मास्तु इत्युक्ते धूमाभावे वह्निर्न स्यादिति / अत्रानुकूलतर्को नास्ति इत्ययमनुकूलतर्काभावः प्रतिकूलतर्कश्च / यदि धूमवान् स्यात् तदा अट्रॅन्धनमपि स्यात्, न हि व्यापकेन विना व्याप्यं तिष्ठति इति प्रतिकूलतर्कः इत्येतौ द्वौ उपाधेरुपजीव्यौ अपि स्वतो दूषकौ अपि न हेत्वाभासौ / कुत इत्यत आह - स्वरूपसतोरिति / तथा चैतयोनिं न प्रतिबन्धकमिति कृत्वा नैतौ हेत्वाभासौ / हेत्वाभासानां तु ज्ञानमेव प्रतिबन्धकमिति / इति असिद्धो गतः / 1. 'सर्वत्र प्रथमाद्विवचनम्' इति रहस्ये मथुरानाथः /

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620