Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ हेत्वाभासप्रकरणे बाधः 583 पृथग् हेत्वाभासः कर्तव्यः / आवश्यकत्वेऽप्याह - तत्त्वे वेति / तथा च निर्वाह्यो व्यभिचार एव दूषणं न तु निर्वाहको बाध इत्यर्थः। वह्निरुष्णः कृतक इत्युद्भावनात् वह्निरुष्ण इत्युद्भावने लाघवमिति बाधः पृथगिति कश्चित् / तन्न, पक्षे साध्याभावप्रमा स्वार्थानुमाने यदि न दोषः तदा परं प्रत्यपि न स्यात् अविशेषात् इति तदुद्भावनस्य दूरनिरस्तत्वात्। बाधव्यभिचारयोरसङ्करमाशङ्कते - वह्निरिति / वहिरनुष्णः कृतकत्वात् इत्यत्र वह्रिरुष्णः कृतक इति व्यभिचारोद्भावनापेक्षया वह्रिरुष्ण इति बाधोद्भावने लाघवम् इति बाधः पृथगित्यर्थः / दूषयति - पक्षेति / स्वार्थेति / स्वार्थानुमाने या साध्याभावप्रमा सा हेतुविषयिण्येव / यदि साध्याभाववति हेतुर्न ज्ञातस्तदाऽसिद्धिः, साध्याभाववति हेतुज्ञाने व्यभिचारज्ञानमेव, तथा च स्वार्थानुमाने बाधो न दूषणम् / यदि च स्वार्थानुमाने बाधो न दूषणं तदा परार्थानुमाने हेतुविषयकव्यभिचारोद्भावने गौरवेऽपि व्यभिचार एव दूषणं न तु बाधः / एतदेवाह - तदुद्भावनस्येति / एतावतोक्तम् बाधो व्यभिचारात् पृथग् हेत्वाभासो न भवति इत्युक्तम् / . अथोपनीतकाञ्चनमयत्वविशिष्टवन्यनुमितेः सल्लिङ्गजन्यायाः आभासत्वं हेत्वाभासाधीनम् / न चानुमितेः पूर्वं तत्र व्यभिचारज्ञानं विशिष्टस्याप्रसिद्धया तदभावस्याज्ञानात्, अत एव पक्षासिद्धिरपि न। अथ एकदेशिमतेन बाधासङ्करमाशङ्कते - अथेति। तथा च यदा वह्निमान् इत्यनुमितिर्न जायते तदाऽनुमितेः पूर्वत्वं(पूर्व) काञ्चनमयत्वं वाह्नः] न या(आ)दौ ज्ञातमस्ति / तद्विशेषणं यदा उपनयवशात् वह्नयंशे भासते यथा पर्वतः काञ्चनमयो वह्निस्तद्वान् इयं याऽनुमितिः सा [तदा] आभासरूपाऽप्रमारूपा भवति, अनुमितेश्चाभासत्वं हेत्वाभासाधीनम्, न चैतस्मिन् अनुमाने कश्चिदन्यो हेत्वाभासोऽस्ति हेतोः सद्धेतुत्वात् यतो धूमस्य वह्निव्याप्यत्वं पक्षधर्मत्वं चेति, तेन व्यभिचारविरुद्धासिद्धा निवारिताः, सत्प्रतिपक्षोऽपि नास्ति विरुद्धहेत्वन्तरानुपस्थितेः, अतः काञ्चनमयत्वविशिष्टवल्यभावरूपो बाध एव हेत्वाभासः / व्यभिचारप्रसङ्गमत्र निराकरोति - न चेति / व्यभिचारज्ञानं नाम काञ्चनमयत्वविशिष्टवल्यभाववति हेतोः सत्त्वम्, न च काञ्चनमयत्वविशिष्टवह्निः पूर्वं ज्ञातोऽस्ति येन कृत्वा तदभाववति हेतुसत्त्वज्ञानरूपं व्यभिचारज्ञानं स्यात् / असिद्धिरप्यत्र नास्तीत्याह - अत एवेति / साध्यस्य वह्नः पक्षे सन्दिग्धत्वात् पर्वतत्वावच्छिन्नपर्वतस्य च विद्यमानत्वात् नाश्रयासिद्धिः।
Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620