Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ हेत्वाभासप्रकरणे बाध: बाधो न साध्याभाववत्पक्षकत्वं पक्षवृत्त्यभावप्रतियोगिसाध्यकत्वंवा, पक्षे साध्याभावज्ञानमात्रस्य प्रमात्वज्ञानं विना अधिकबलत्वाज्ञानेन बाधाभावादिति वक्ष्यते। __ अथ प्राचीनकृतं बाधलक्षणं दूषयति - बाध इति / तथा च साध्याभाववान् पक्षो यस्य स बाधो बाधितो हेतुरिति यावत् / पक्षेति / पक्षवृत्तिोऽभावस्तस्य प्रतियोगि यत् साध्यं तत्कत्वं हेतोः यथा ह्रदो वह्रिमान् धूमात् इत्यत्र ह्रदवृत्त्यभावप्रतियोगि साध्यं वह्निस्तत्कत्वं बाध इत्यर्थः / इदं लक्षणद्वयमपि दूषयति - साध्याभावज्ञानेति / अनयोस्तदा हेत्वाभासत्वं स्यात् यदि अनयोर्ज्ञानं प्रतिबन्धकमस्ति, यदां अनयोर्ज्ञाने. प्रमात्वज्ञानं नास्ति तदानीमधिकबलत्वाभावात् न बाध इति वक्ष्यते। अतो लक्षणद्वयं पूर्वकृतमनुपपन्नमित्यर्थः / अत एव साध्याभाववत्पक्षवृत्तित्वमपि न असिद्धिसङ्कीर्णबाधाव्याप्तेश्च किन्तु साध्याभाववत्त्वप्रमाविषयपक्षकत्वं प्रमितसाध्याभाववत्पक्षकत्वं पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वं वेति विवक्षितविवेकेन साध्याभावादिप्रमैव दोषः। मतान्तरं दूषयति - अत एवेति / यतः प्रमात्वज्ञानं विना साध्याभावज्ञानमात्रस्य प्रतिबन्धकत्वं नास्ति अत एवेत्यर्थः / साध्येति / साध्याभाववान् यः पक्षः तद्वृत्तित्वं हेतोर्बाधः / पूर्वोक्तदूषणादेवेदमपि निरस्तमित्यर्थः / अत्रैव दूषणान्तरमाह - असिद्धीति / यथा ह्रदो वह्निमान् धूमात् इत्यत्र साध्याभावावात्पक्षवृत्तित्वं धूमस्य नास्ति इति कृत्वा धूमो बाधितो न स्यात् इत्यव्याप्तिः, वस्तुगत्या बाधितो वर्तते स न स्यादिति भावः। बाधलक्षणे सिद्धान्तमाह - किन्त्विति / साध्याभाववत्त्वस्य या प्रमा तद्विषयो यः [297 A] पक्षः तत्कत्वम् तथा च ह्रदे यद्यपि धूमो नास्ति तथापि साध्याभाववत्त्वप्रकारकप्रमाविषयत्वं तु वर्तते इति कृत्वा बाधितोऽपि भवति असिद्धोऽपि भवति / बाधस्य लक्षणान्तरमाह - प्रमितेति / प्रमितो यः साध्याभावस्तद्वान् पक्षो यस्य तत्कत्वं हेतोरित्यर्थः / अथ प्राचीनानां मते घटोऽयम् इत्यत्र ज्ञानस्वरूपघटस्वरूपातिरिक्त एको विषयतापदार्थस्तिष्ठतीति तद्घटितं लक्षणमाह - पक्षनिष्ठेति / तथा च पक्षनिष्ठा या प्रमाविषयता तस्यां प्रकारो योऽभावः तस्य प्रतियोगि यत् साध्यं तत्कत्वम् / यथा ह्रदो वह्निमान् धूमात् इत्यत्र हृदे वह्निर्नास्तीति प्रमा जायते, अत्र वढ्यभावप्रकारिका या प्रमा तद्विषयता ह्रदरूपपक्षनिष्ठा भवति, अतो ह्रदनिष्ठा या प्रमाविषयता वह्नयभावप्रकारकप्रमाविषयता तस्यां विषयतायां वह्वेरभावः प्रकारो भवति / अभावस्य प्रतियोगी वह्निर्भवति, स वह्निः साध्यं धूमस्य भवतीत्यत्र विषयत्वप्रकारादीनां त्रयाणामुपाधीनां ज्ञानं प्रतिबन्धकं न
Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620