Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 593
________________ 575 हेत्वाभासप्रकरणे असिद्धिः कारणम्, तदभाव एव हेत्वाभासः इत्येव स्यात् न त्वन्यत् कारणं हेत्वाभासान्तरं वा इत्यर्थः / अन्ये तु गमकतौपयिकप्रतिद्वन्द्विव्याप्तिपक्षधर्मताविरहतन्नियतयोरन्यतरत्वं हेत्वाभासत्वम् / तत्राधिकबलसमानबलौ बाधप्रतिरोधौ प्रतिद्वन्द्विनौ व्याप्तिपक्षधर्मताविरहश्चासिद्धिः, तन्नियतौ च सव्यभिचारविरुद्धौ / न चानयोरप्यसिद्धयन्तर्भाव:, व्याप्तिविरहनियतत्वेन ज्ञातयोः स्वातन्त्र्येणैव दूषकत्वात् भ्रमे विशेषदर्शनस्येवेति। ___ मतान्तरेणासिद्धेर्लक्षणमाह - अन्ये त्विति / गमकतेति / गमकतायामुपयोगि यत् रूपम् अबाधितत्वम् असत्प्रतिपक्षत्वं तद्विरोधिनौ बाधसत्प्रतिपक्षौ, व्याप्तिपक्षधर्मताविरहश्च इत्यनेनासिद्धः सङ्गृहीतः, तन्नियता व्याप्तिपक्षधर्मताविरहनियता व्यभिचारविरुद्धादयः तावदन्यतरत्वं हेत्वाभासत्वम् / इदमेव हेत्वाभाससामान्यलक्षणम् / तदेव विवृणोति - तत्रेति। अधिकबलसमबलौ यौ बाधप्रतिरोधौ तौ गमकतोपयोगरूपविरोधिनौ [295 A] एतावता द्वयोर्हेत्वाभासमध्ये सङ्ग्रहो जातः / अथाऽसिद्धिसङ्ग्रहमाह - व्याप्तिपक्षधर्मताविरहश्चेति / इदमसिद्धेर्लक्षणम्, व्याप्तिपक्षधर्मताविरहपदेनैवासिद्धेस्त्रिरूपायाः सङ्ग्रहः / अथ व्यभिचारविरुद्धयोः सङ्ग्रहमाह - तन्नियतौ चेति। तत्पदेन व्याप्तिपक्षधर्मताविरहः, तन्नियतौ व्यभिचारविरुद्धौ तयोरप्यनेन सङ्ग्रहः / शङ्कते - नचेति / अनयोर्व्यभिचारविरुद्धयोरित्यर्थः / अनयोरपि व्याप्तिपक्षधर्मताविरहो वर्तत एवेति / समाधत्ते - व्याप्तिविरहनियतत्वेनेति। तथा चानयोर्व्याप्तिविरहनियतत्वेन ज्ञातयोः स्वातन्त्र्येणैव प्रतिबन्धकत्वम् / अत्र दृष्टान्तमाह - भ्रम इति / यथा रजतभ्रमे रजतत्वाभावज्ञानमपि प्रतिबन्धकं रजतत्वाभावव्याप्यज्ञानमपि प्रतिबन्धकं तद्वत् व्याप्तिपक्षधर्मताविरहोऽपि प्रतिबन्धकः तन्नियतौ व्यभिचारविरुद्धावपि प्रतिबन्धको / एतावता असिद्धस्य भिन्नं लक्षणमुक्तम्, हेत्वाभासानां च सामान्यलक्षणमुक्तम् / तन्न, अत्रापि व्याप्तिपक्षधर्मताविरह एवासिद्धिः पर्यवस्यति, तत्र चोक्तमेव अन्यतरत्वं च न लक्षणं व्यर्थविशेषणत्वात् हेत्वाभासान्तरबहिष्कृतस्य व्याप्तिपक्षधर्मतानिश्चयविरोधिनो रूपस्य विवक्षितत्वात् तच्चाश्रयासिद्धयादिकमेवेति। .. इदं मतं दूषयति - तन्नेति / अत्रापि तन्मते / उक्तमेवेति / अनेन प्रत्येकाभाव एव दूषणमस्तु इत्यर्थः / अन्यतरत्वमिति। बाधसत्प्रतिपक्षव्याप्तिपक्षधर्मताविरहव्यभिचारविरुद्धान्यतरत्वम्, इदमपि हेत्वाभाससामान्यलक्षणं न भवतीति / कथमित्यत आह - व्यर्थेति / सर्वत्र लक्षणे यत् अन्यतरत्वं तत् भागासिद्धिवारकम् / यदि अन्यतरत्वं विशेषणं न दीयते तदाऽसिद्धत्वादिकं लक्षणं जातम्, तच्चान्यत्र भागे विरुद्धादौ असिद्धमिति

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620