Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology
View full book text
________________ 540 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका इत्यर्थः / पक्षविशेष्यकेति टीका। नित्यत्वव्याप्यश्रावणत्ववान् अयं शब्दः इति पक्षविशेष्याक]परामर्शमभिप्रेत्योक्तम् / तत्र पक्षविशेष्यकपरामर्श विशिष्ट एव हेतुरारोप्यस्तस्य चाप्रमितत्वात् / यत्र च हेतुविशेष्यक एव परामर्शो जातस्तत्र यथा श्रावणत्वमयं हेतुः नित्यत्वव्याप्यः शब्दवृत्तिश्च तत्रोभयमपि प्रमितं सम्भवत्येव नित्यत्वव्याप्यत्वमपि प्रमितं सम्भवति शब्दवृत्तित्वमपि प्रमितं सम्भवति एव इति कृत्वा उभयस्यापि प्रमितस्यारोपः सम्भवत्येव / तस्मात् पक्षविशेष्यकपरामर्शाभिप्रायेणोक्तमारोपो न सम्भवतीति। अन्यथेति टीका। यदि पक्षविशेष्यक एव परामर्शो नोच्यते तदेत्यर्थः / हेतुविशेष्यकपरामर्शे तूभयमपि आरोप्यम् / विशिष्टमनारोप्यं किन्तु द्वयमारोप्यं तच्च द्वयमपि प्रमितमेव / एतदेवाह - एकस्य द्वयमिति टीका / एकस्य श्रावणत्वस्य शब्दवृत्तित्वं नित्यत्वव्याप्तिश्चेति द्वयमपि प्रमितं सत् श्रावणत्वे आरोपयितुं शक्यते एव। अत्रैव साधकान्तरमाह - अतएवेति टीका / यतः खण्डशः प्रमितं नित्यत्वव्याप्यत्वं प्रमितं शब्दवृत्तित्वमपि प्रमितमिति खण्डशः प्रमितमारोपयितुं शक्यत एवेति अत एव इदं दूषणमलग्नकं दृष्ट्वा सिद्धान्तग्रन्थे उद्धरिष्यति / अन्यथेति टीका / व्याप्तिविशिष्टः प्रमित एवारोप्यते तदा वस्तुगत्या लिङ्गाभाववति अनुमित्यनुत्पत्तिः / वस्तुगत्या धूमाभाववति पर्वते धूमभ्रमात् याऽनुमितिः सा न स्यादेव। तत्र हेतौ विशेष्ये पक्षवृत्तित्वस्य वहिव्याप्यत्वस्यारोपासम्भवात् धर्मिणो धूमस्यैवाभावात् / यदि पुरोवर्तिः शुक्तिर्भवति तदा तत्र रजतत्वारोपः [278 A] सम्भवति न त्वन्यथा। तद्वत् यदि धूमो विद्यमानो भवेत् तदा तत्रधूमे वहिव्याप्यत्वस्य पर्वतवृत्तित्वस्य चारोपो भवेत्, परं यत्र धूम एव नास्ति तत्र धर्मिण एवाभावात् कथं तदारोपः ? तस्मात् पक्षविशेष्यक एवारोपो वक्तव्यः वहिव्याप्यधूमवान् अयम् / ननु (न तु) अत्रधूमे पर्वतवृत्तित्वं वह्निव्याप्यत्वं चेति हेतुविशेष्यक आरोपः कर्तव्यः पूर्वोक्तदोषात् अथ हेतुविशेष्यकपरामर्शेऽपिव्याप्तिपक्षधर्मतयोरप्याकाशादिके लिङ्गेऽभावात्। यथा इदं द्रव्यम्आकाशात् इत्यत्रआकाशे एकस्मिन्नेव हेतौ व्याप्तिरपि नास्ति पक्षधर्मतापि नास्ति आकाशस्यावृत्तित्वात् / यत्राकाशस्तत्र द्रव्यमिति नास्ति। नाप्याकाशस्य पक्षधर्मत्वम्, आकाशः कस्यापिधर्मो न भवति। तथा च त्वया यदुक्तं साध्यव्याप्ये हेतौ पक्षधर्मस्यारोपः पक्षधर्मे वा साध्यव्याप्यत्वस्यारोपः इति तद् अयुक्तम्, गगने एतदुभयाभावात्। यतस्तत्र व्याप्यत्वमपि नास्ति पक्षधर्मत्वमपि नास्ति। यत आकाशस्यापि वृत्तिमत्त्वभ्रमदशायामाकाशात् द्रव्यत्वस्यानुमितिर्जायते सा न स्यात्, यत् त्वयोक्तम् व्याप्ये पक्षधर्मत्वारोपात् भ्रमरूपानुमितिः पक्षधर्मे वा व्याप्यत्वारोपात् भ्रमरूपानुमितिरिति तन्न स्यात् आकाशस्य व्याप्यत्वपक्षधर्मतोभयाभावादित्यर्थः / अयमत्र प्रघट्टकार्थः / पर्वतो वह्निमान् धूमात् पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इति सत्प्रतिपक्षे अत्र उभयत्र व्याप्तिपक्षधर्मताज्ञानमपेक्षितम्, तत्र धूमे व्याप्तिपक्षधर्मताज्ञानं यद्यपि तिष्ठति तथापि पाषाणवत्त्वे व्याप्तिविशिष्टपक्षधर्मता नास्ति यतः पाषाणवत्त्वे वढ्यभावव्याप्यत्वं नास्ति यत्र यत्र पाषाणवत्त्वं तत्र तत्र वह्नयभाव इति व्याप्तिास्ति पर्वते व्यभिचारात् /
Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620