Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 560
________________ 542 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तर्कावतारस्तत्र समानबलोपस्थित्यभावात् [279 A] सत्प्रतिपक्षलक्षणं नास्तीति नातिव्याप्तिरित्यर्थः / ननु तत् किं समानत्वमित्यत आह - समानत्वं चेति टीका / साध्यतदभावनिर्णयाजनकत्वेनेति / तदेवं समानत्वं यत् साध्यनिर्णयो न क्रियते सत्प्रतिपक्षग्रस्तत्वात् साध्याभावनिर्णयोऽपि न क्रियते तद्विपरीतसाधकग्रस्तत्वात् / अत्रैवोपोद्वलकमाह - अधिकबलोपस्थितिश्चेति टीका / यतोऽधिकबलोपस्थिति(तिः) निर्णयजनिकाऽतो निर्णयाजनकत्वमेव समानबलत्वम् / अत्र यत्र तर्कसहकृताधिकबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गे हीनबलेऽतिव्याप्तिवारणार्थं समानपदं दत्तम् / तदयुक्तमित्याशङ्कते - नन्विति टीका / तत्फलस्येति। तस्या अधिकबलोपस्थितेर्यत् फलमपरानुमानबाधः तस्यैव हीनबलानुमितिप्रतिबन्धकत्वम् न तु अधिकबलोपस्थिते: प्रतिबन्धकत्वम् इति कृत्वा तत्रातिव्याप्तिरेव नास्तीत्याशङ्कार्थः / अत्रैव दूषणान्तरमाह - किञ्चेति टीका / यतो . . दोषादपरानुमानस्य हीनबलत्वं तत एवानुमितिप्रतिबन्धः न त्वधिकबलोपस्थितेः प्रतिबन्धकत्वम्, तथा चाधिकबलोपस्थितेः प्रतिबन्धकत्वं नास्ति, तत्कृतबाधस्य दोषान्तरस्य वा प्रतिबन्धकत्वमित्याशङ्कार्थः / समाधत्ते - बाधस्येति / यदि तर्कसहकृताधिकबलोपस्थितेः फलं बाधः तस्य चानुमितिप्रतिबन्धकत्वं तदा यत् ज्ञानं यत्र प्रतिबन्धकं तत्सामग्री अपि तत्र प्रतिबन्धिका इति न्यायेन बाधस्य तत्र प्रतिबन्धकत्वेऽवश्यं बाधसामग्री अपि तत्र प्रतिबन्धिका वाच्या। तथा च बाधसामग्रीरूपा याऽधिकबलोपस्थितिस्तया प्रतिरुद्ध कार्ये हीनबलेऽतिव्याप्तिवारणार्थं युक्तमेव विशेषणं समानपदरूपमिति / यदि च बाधसामा याः तत्र प्रतिबन्धकत्वं नास्ति तदा दूषणमाह - अन्यथेति टीका / यदि बाधसामग्री हीनबले न प्रतिबन्धिका तदा हीनबलेन बाधावतारात् पूर्वं कुतो नानुमितिर्जन्यते, हीनबलेन चानुमितिर्न जन्यत एवेति बाधसामग्री अपि अवश्यं प्रतिबन्धिका वाच्या / अत्र शङ्कते - न चेति टीका / तथा च बाधसामग्री न प्रतिबन्धिका किन्तु तदानीं सत्प्रतिपक्षत्वमेव, तेन यदा बाधावतारो नास्ति तदा सत्प्रतिपक्षत्वमेव यदा च बाधोऽवतीर्णस्तदानीं बाध एव प्रतिबन्धकः न सत्प्रतिपक्ष इत्याशङ्कार्थः / समाधत्ते - अव्यवहितेति टीका। यदि बाधावतारात् पूर्वम् उभयोरपि सत्प्रतिपक्षत्वं तदाऽधिकबलेन हेतुनाऽपरं यत् साध्यं तदभावानुमितिरूपो यो बाधस्तस्याजननापत्तेः उभयोः सत्प्रितिपक्षत्वात् / तस्मात् अधिकबलोपस्थितेरवश्यं [279 B] प्रतिबन्धकत्वं वक्तव्यमिति / द्वितीयं दूषणं निराकरोति - यदिहीतिटीका। तथा चहीनबलत्वप्रयोजकंदोषान्तरं चेत् प्रतिबन्धकंतदास दोषोऽपिप्रतिबन्धकोऽस्तु सामग्री अपि प्रतिबन्धिकाऽस्तु। उभयोर्मध्ये एकस्य प्रतिबन्धकत्वे विनिगमकाभावात् उभयोरपि प्रतिबन्धकत्वम् / यत्र च विनिगमकं नास्त्येकप्रतिबन्धकतायां तत्रोभयोरपि प्रतिबन्धकत्वम्, अत्रैवानुकूलमाह - अन्यथेति टीका। यथा ह्रदो धूमवान् वह्नः इत्यत्र बाधव्यभिचारयोरुभयोरप्युपस्थितिदशायामनुमितिप्रतिबन्धात् एकस्य प्रतिबन्धकत्वं नापरस्येति विनिगन्तुमशक्यत्वात् बाधव्यभिचारयोरपि प्रतिबन्धकत्वम्, अन्यथा तत्रो

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620