Book Title: Tattva Chintamani
Author(s): Nagin G Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 550
________________ 532 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका दोषो न तु विरुद्ध इत्यर्थः / ननु विरुद्धे दूषकताबीजं किमित्यत आह - साध्यवदवृत्तित्वमिति टीका। तथा च यः साध्यवदवृत्तिः स एव विरुद्ध इत्यर्थः। ननुसाध्यवद्वृत्तित्वानधिकरणत्वादीनि त्रीण्यपिलक्षणानि इदमाकाशादिति आकाशहेतुकेऽतिव्याप्तानि आकाशस्यावृत्तित्वादित्यत आह - पूर्वास्वरसेनेति टीका। तथा चात्रापि वृत्तिमत्त्वं विशेषणं दातव्यम् / ननु साध्यवद्वृत्तित्वानधिकरणत्वम् अथ च साध्यवद्वृत्तित्वानधिकरणधर्मत्वमित्यनयोः को भेद इत्यत आह - अन्योन्येति टीका। उभयत्राभावप्रवेशेऽपि अन्योन्याभावभेदेन भेदः। प्रथमे साध्यावावृत्तित्वाधिकरणभिन्नत्वमित्यन्योन्याभावगर्भम्, द्वितीयं तु साध्यवद्वृत्तित्वात्यन्ताभावाधिकरणत्वम्।प्रथमे साध्यवद्रूत्तित्वस्य यदधिकरणं हेतुस्तद्भिन्नाधिकरणत्वं [274 A] हेतोर्विरुद्धत्वमित्यर्थः / द्वितीयार्थो यथा साध्यवद्वत्तित्वस्य धर्मस्य योऽत्यन्ताभावस्तदधिकरणत्वं हेतोर्विरुद्धत्वमित्यर्थः / स्वमतोपन्यासमाह - अत्र ब्रूम इति। . . असाधारणोक्तेति / यथाऽसाधारणे सपक्षव्यावृत्तत्वग्रहे विद्यमानेऽपि शब्दादाप्तवाक्यात् व्याप्तिग्रहस्तथा वृत्तिमत्त्वविशिष्टसाध्यवदवृत्तित्वग्रहे विद्यमानेऽपि अत्रापि शब्दात् व्यतिरेकव्याप्तिग्रहो भवति। यथाऽयमश्वो गोत्वात् इत्यत्रवृत्तिमद्गोत्वमश्ववदवृत्ति इतिज्ञाने विद्यमानेऽपि यत्राश्वत्वाभावस्तत्रगोत्वाभावइति व्यतिरेकव्याप्तिग्रहः आप्तवाक्यात् भवत्येव / यथा घटेऽश्वत्वाभावोऽपि वर्तते गोत्वाभावोऽपि वर्तते तस्मादश्वत्वाभावव्यापकाभावप्रतियोगि गोत्वमिति शब्दादुक्तरूपव्यतिरेकव्याप्तिग्रहो भवत्येव / एतदेवाह - वृत्तिमत्त्वस्येति टीका। वृत्तिमत्त्वघटितं यद् विरुद्धत्वं साध्यवदवृत्तित्वं तद्ग्रहस्यापि अश्वत्ववति वृत्तिमदपि ग्रोत्वं न वर्तते इति ग्रहे विद्यमानेऽपि अश्वत्वाभावव्यापकाभावप्रतियोगि गोत्वमिति व्याप्तिग्रहः शब्दात् जायते, तत्र स साध्यवदवृत्तित्वग्रहः प्रतिबन्धक एव न भवति ग्राह्याभावानवगाहित्वात् अनुमितिविषयाभावानवगाहित्वात् व्यतिरेकव्याप्तिज्ञानविषयाभावानवगाहित्वाच्च।तस्मिन्निति।साध्यवदवृत्तित्वरूपविरुद्धग्रहे विद्यमानेऽपिआप्तवाक्यादिना व्याप्तिग्रहो भवत्येवेति न स प्रतिबन्धकः तर्हि वृत्तिमत्त्वविशिष्टसाध्यवदवृत्तित्वरूपस्य विरुद्धत्वस्य कथं हेत्वाभासत्वमित्यत आह - तस्मादिति टीका। यदि व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते इति यदा मतं तदा ग्राह्याभावावगाहितयाऽन्वयव्याप्तिग्रहप्रतिबन्धकं भवत्येव / कुतः ? साध्यसामानाधिकरण्यमन्वयव्याप्तिः, ततो हेतोः साध्यसामानाधिकरण्यं साध्यवद्वृत्तित्वम्, ततः साध्यवद्वृत्तित्वग्रहे साध्यवदवृत्तित्वग्रहः प्रतिबन्धको भवत्येव, अन्वयव्याप्तिग्रहे यथागोत्वमश्वत्ववद्वृत्तिइत्यन्वयव्याप्तिग्रहेऽश्वत्ववदवृत्तित्वज्ञानमश्वत्ववद(द्)वृत्तित्वज्ञाने प्रतिबन्धकं भवत्येव परं व्यतिरेकव्याप्तिग्रहे तद्विरुद्धत्वज्ञानं प्रतिबन्धकं न भवति। कथम् ? उक्तरूपसाध्यरूपवदवृत्तित्वज्ञाने विद्यमानेऽपि व्यतिरेकव्याप्तिग्रहस्य जायमानत्वात् / यत्राश्वत्वाभावस्तत्र गोत्वाभाव इति व्यतिरेकव्याप्तिग्रहे तद्विरुद्धत्वज्ञानं प्रतिबन्धकंन भवतिग्राह्याभावानवगाहनात्।ग्राह्यस्तु अश्वत्वाभाववति गोत्वाभावो ग्राह्य इति व्यतिरेकव्याप्तिग्रहे तदभावो विरुद्धज्ञानेन नावगाह्यते भिन्नविषयकत्वात्। ततस्तदविरुद्ध

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620