________________
मुत्पादयति । अत्राह पर:-ननु यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते न च पुण्यापुण्यफलं न च परलोकस्तहि कथं जगद्वैचित्र्यं घटते ?, तथाहि-कश्चिदीश्वरः परो दरिद्रः एक सुखी एको दुःखी इत्येवंप्रकारा जगद्विचित्रता कुतो जाता है | इत्यत्रोच्यते-स्वभावात् , तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुडमागरुचन्दनादिविलेपनानुभोगमनुभवति, स्रग्धूपाद्यामोदं च गृह्णाति, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुमे स्तः, यदुदयात्तौ-पाषाणखण्डौ शुभाशुभावस्थाविशेषमनुभवतः, इत्येवं स्वभावाजगद्वैचित्र्यं, यत-"कण्टकस्य च तीक्ष्णत्वं | मयूरस्य विचित्रता। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति तञ्जीवतच्छरीरवादिमतं गतम् ॥ १२ ॥ अथ अकर्तृवादिमतनिरूपणायाहकुव्वं च कारयं चेव, सवं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगन्भिया ॥१३॥ ___ व्याख्या-ते अकर्तृत्ववादिन एवं कथयन्ति-आत्मा अमृतॊ नित्यः सर्व व्यापी चेति, अत एव न स्वयं क्रिया करोति न चान्यान् कारयति, एतावता आत्मा स्वयं क्रियायां न प्रवर्तते नाप्यन्यं प्रवर्त्तयति, यद्यपि स्थितिक्रिया 'मुद्राप्रति. बिम्बोदय ' न्यायेन [ जपास्फटिकन्यायेन चं] मुजिक्रियां करोति तथापि समस्तक्रियाकर्तृत्वं तस्य नास्तीत्येतदर्शयति'सव्वं कुव्वं ण विजई' सर्वां परिस्पन्दादिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वमात्मा न विद्यते, सर्वव्यापित्वेनामूर्त्तत्वेनाकाशस्येवात्मनो निष्क्रियत्वमिति । तथा चोक्तं-" अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यस्थ दर्शने ।
१ स्वभाववादी। २ मुद्रितबृहद्वृत्तौ ।