________________
अनानि तेषां गुणास्तैरुपपेतं, तत्र लक्षणानि छत्रचामरादीनि चक्रितीर्थकृतां अष्टोत्तरसहस्रं बलदेववासुदेवानां अष्टोत्तरशतं अन्येषांतु भाग्यवतां द्वात्रिंशत्, तानि चेमानि-'छत्रंतामरसं २धनू'३ रथवरो४ दम्भोलि ५कूर्मा ६ कुशा ७, वापी ८ स्वस्तिक ९ तोरणानि १० च सरः,११ पञ्चाननः१२ पादपः १३ । चक्रं १४ शङ्ख १५-18 गजौ १६ समुद्र १७ कलशौ,१८ प्रासाद १९ मत्स्या २० यवा २१, यूप २२ स्तूप २२ कमण्डलू २४ न्यवनिभृत् २५ सच्चामरो २६ दर्पणः २७ ॥१॥ उक्षा २८ पताका २९ कमलाभिषेकः ३०, सुदाम ३१ केकी ३२ घनपुण्यभाजाम् ॥ तथा 'इह भवति सतरक्तः,षड्डन्नतः पञ्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो द्वात्रिंशल्लक्षणास पुमान् ॥१॥ तत्र सप्त रक्तानि-नख १ चरण २हस्त ३ जिह्वा ४ ओष्ठ ५ तालु ६ नेत्रान्ताः ७, षडुन्नतानि-कक्षा १ हृदयं २ ग्रीवा ३ नासा ४ नखा ५ मुखं च ६, पञ्च सूक्ष्माणि-दन्ताः१त्वक २ केशा ३ अङ्गलिपाणि ४ नखाश्च ५, तथा पश्च दीर्घाणि-नयने १ हृदयं २ नासिका ३ हनुः ४ भुजौ च ५, त्रीणि विस्तीर्णानि-भालं १ उरः२ वदनं च ३,त्रीणि लघूनि-ग्रीवा १ जङ्घा २ मेहनं च ३, त्रीणि गम्भीराणि-सत्त्वं १ स्वरः २ नाभिश्च ३, मुखमधं शरीरस्य, सर्व वा मुखमुच्यते।ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने ॥१॥ यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥२॥ अतिहखेऽतिदीर्धेऽतिस्थूले चाँतिकृशे तथा। अतिकृष्णेऽतिगौरे च, षट्सु सत्त्वं निगद्यते॥३॥ सद्धर्मः सुभगोनीरुक, सुखमः सुनयः18 कविः । सूचयत्यात्मनः श्रीमान्, नरः स्वर्गगर्मागमौ॥४॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः।
Jain Education
in
For Private & Personel Use Only
Umww.jainelibrary.org