________________
एकस्मिन् समये उत्कृष्टावगाहनावन्तः अष्टाधिकशतमिता न सिध्यन्ति, ते च अस्यां अवसर्पिण्यां सिद्धाः, यत:-'वृषभो १ वृषभस्य सुता९९.भरतेन विवर्जिताच नवनवतिः। अष्टौ भरतस्य सुताः १०८ शिवं गता एकसमयेन ॥ १ ॥ (९) 'असंजयाणं ति असयंता:-असंयमवन्तः आरम्भपरिग्रहप्रसक्तास्तेषां पूजा, संयता एव सर्वदा पूज्यन्ते, अस्यां अवसर्पिण्यां तु नवमदशमजिनयोरन्तरे असंयतानां अपि ब्राह्मणादीनां पूजा प्रवृत्तेति आश्चर्य (१०)
इमानि दशापि आश्चर्याणि अनन्तकालातिक्रमे अस्यां अवसर्पिण्यां जातानि, एवं च कालसाम्यात् शेषेष्वपि चतुर्यु भरतेषु पञ्चसु ऐरवतेषु च प्रकारान्तरेण दश आश्चर्याणि ज्ञेयानि । अथ दशानां आश्चर्याणां तीर्थव्यक्ति:-अष्टाधिकशतसिद्धिगमनं श्रीऋषभतीर्थे १ हरिवंशोत्पत्तिः शीतलतीर्थे २ अपरकङ्कागमनं श्रीनेमितीर्थे ३ स्त्रीतीर्थकरी मल्लितीर्थे ४ असंयतपूजा सुविधिजिनतीर्थे ५, शेषाणि च उपसर्ग १ गर्भापहार
२ अभाविता पर्षत् ३ चमरोत्पात ४ चन्द्रसूर्यावतरणलक्षणानि ५ पञ्च आश्चर्याणि श्रीवीरतीर्थे, एकं तावत् IS आश्चर्य इदं, अपरञ्च-(नामगुत्तस्स वा कम्मस्स) नाम्ना गोत्रं इति प्रसिद्ध यत्कर्म गोत्राभिधानं कर्मे-11 त्यर्थः तस्य, किंविशिष्टस्य ? ( अक्खीणस्स) अक्षीणस्य, स्थितेः अक्षयेण ( अवेइअस्स) अवेदितस्य, रसस्य
अपरिभोगेन (अणिजिण्णस्स) अनिर्जीर्णस्य, जीवप्रदेशेभ्योऽपरिशटितस्य, इदृशस्य गोत्रस्य-नीचैर्गोत्रस्यI ( उदएणं) उदयेन भगवान् ब्राह्मणीकुक्षी उत्पन्न इति योगः।
Jain Education
a
l
For Private & Personel Use Only
Plaw.jainelibrary.org