Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 397
________________ Jain Education अणेगे वा) यदि स्यात् अत्र कोऽपि निकटवर्ती एक: अनेको वा साधुः, तदा (कप्पड़ से एवं वइत्तए) कल्पते तस्य एवं वक्तुं - ( इमं ता अज्जो ! तुमं मुहुत्तगं जाणाहि ) इमं उपधिं त्वं हे आर्य ! मुहूर्त्तमात्रं जानीहि सत्यापयेः (जाव ताव अहं गाहावइकुलं जाव काउसग्गं वा ठाणं वा ठाइत्तए) यावत् अहं गृहस्थगृहे यावत् कायोत्सर्ग वा स्थानं वीरासनादि वा स्थातुं इति ( से य से पडिणिज्जा एवं से कप्पइ गाहावइकुलं तं चैव सव्वं भाणियव्वं ) स चेत् प्रतिशृणुयात् - अङ्गीकुर्यात् तद्वस्त्रसत्यापनं तदा तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं अशनायाहारयितुं विहारभूमिं विचारभूमिं वा गन्तुं स्वाध्यायं वा कायोत्सर्ग वा कर्त्तुं स्थानं वा- वीरासनादिकं स्थातुं, तदेव सर्वं भणितव्यं ( से य से नो पडिसुणिजा एवं से नो कप्पड़ गाहावइकुलं जाव ठाणं वा ठाइत्तए) स चेत् नो अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे यावत् स्थानं वा स्थातुं ॥ ( ५२ ) ॥ ( वासावासं पजोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां वा ( अणभिग्ग हिय सिज्जासणिएणं हुत्तए) न अभिगृहीते शय्यासने येन सोऽनभिगृहीतशय्यासनः अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यासनिकः खार्थे इकप्रत्ययः तथाविधेन साधुना 'हृत्तपत्ति' भवितुं न कल्पते, वर्षासु मणिकुट्टिमेऽपि पीठफलकादिग्रहवतैव भाव्यं, अन्यथा शीतलायां भूमौ शयने उपवेशने च कुन्ध्वादिविराधनोत्पत्तेः ( आयाणमेयं ) कर्मणां दोषाणां वा आदानं उपादानकारणं एतद्-अनभिगृहीतशय्यासनिकत्वं तदेव द्रढयति - ( अणभिग्गहियसिज्जासणियस्स ) अनभिगृहीतश For Private & Personal Use Only शय्याभिग्रहादि सू. ५३-५४ ५ १० १४ w.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412