Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 395
________________ Jain Educatio विज्ञातशास्त्रार्थी २, दृष्टकर्मा ३ शुचि ४ भिषक । बहुकल्पं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४ ॥ २ ॥ अनुरक्तः १ शुचि २ र्दक्षो ३ बुद्धिमान् ४ प्रतिचारकः । आढ्यो १ रोगी २ भिषग्वश्यो ३, ज्ञायकः सत्त्ववानपि ४ ॥ ३ ॥ (आउट्टित्तए) कारयितुं, आउट्टिधातुः करणार्थे सैद्धान्तिकः ( तं चैव सर्व्वं भाणिअवं ) तदेव सर्वं भणितव्यम् ॥ (४९) ॥ ( वासावासं पजोसविए भिक्खू इच्छिजा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( अन्नयरं ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभावं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए ) किञ्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीयं मङ्गलकारणं सश्रीकं महान् अनुभावो यस्य तत् तथा एवंविधं तपःकर्म आहत्य विहतुं (तं चैव सर्व्वं भाणियां) तदेव सर्वं भणितव्यम् ॥ ( ५० ) | ( वासावासं पज्जो - सविए भिक्खू इच्छिज्जा ) चतुर्मासकं स्थितः भिक्षुः इच्छेत्, अथ कीदृशो भिक्षुः ? - ( अपच्छिममारणंतियसंलेहणाजूसणाजूसिए) अपश्चिमं चरमं मरणं अपश्चिममरणं, न पुनः प्रतिक्षणमायुर्दलिकानुभवलक्षणं आवीचिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममरणान्तिकी, संलिख्यते - कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावभेदभिन्ना 'चत्तारि विचित्ताई' इत्यादिका तस्या 'जुसणं'ति जोषणं - सेवा तया 'जुसिए' त्ति क्षपितशरीरः, अत एव (भत्तपाणपडियाइ क्खिए ) प्रत्याख्यात भक्तपानः, अत एव (पाओवगए कालं अणवकखमाणे विहरित्तए वा ) पादपोपगतः - कृतपादपोगमनः, अत एव कालं जीवितकालं मरणकालं वाऽनवकाङ्क्षन्- अनभिलषन् विहर्त्तुमिच्छेत् (निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे निष्क्रमितुं ational For Private & Personal Use Only विकृतचिकित्सातपः संलेखना - विधिः सू. ४८-५१ ५ १० १४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412