Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 399
________________ प्राप्ते, अस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं,न हि खल्विषये उपसर्गस्य | व्यवधायकत्वं, 'उपसर्गात् खलूघोश्चेतिसूत्रेण ईषत्प्रलंभं दुष्पलंभं इत्यादिप्रयोगज्ञापनादिति दिक। आदानमु-ISभूमयः सू. तवाऽनादानमाह-(अणायाणमेयं ) कर्मणां दोषाणां वा अनादानं-अकारणं एततू-अभिगृहीतशय्यासनिकत्वं उच्चाकुचशय्याकत्वं सप्रयोजनं पक्षमध्ये सकृच्च शय्याबन्धकत्वमिति, तदेव द्रढयति-(अभिग्गहियसिजासणियस्स) अभिगृहीतशय्यासनिकस्य (उच्चाकुइअस्स) उच्चाकुचिकस्य (अट्ठाबंधिस्स) अर्थाय बन्धिनः (मियासणियस्स) मितासनिकस्य (आयावियस्स) आतापिनो-वस्त्रादेरातपे दातुः (समियस्स) समितस्य-समितिषु दत्तोपयोगस्य (अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमजणासीलस्स) अभीक्षणं अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्य साधोः (तहा तहा संजमे सुआराहए भवइ) तथा तथा-तेन तेन प्रकारेण संयमः सुखाराध्यो भवति ॥ (५४)॥ (वासावासं पजोसवियाणं) चतुर्मासकं स्थितानां (कप्पइ निग्गंथाण वा णिग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए) कल्पते साधूनां साध्वीनां तिस्रः उच्चारप्रश्रवणभूम्या, अनधिसहिष्णोस्तिस्रोऽन्तः अधिसहिष्णोश्च बहिस्तिस्रो, दूरव्याघातेन मध्या भूमिस्तद्व्याघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्या (न तहा हेमंतगिम्हामु जहा णं वासासु) न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु (से किमाहु भंते!) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-(वासासु णं ओसन्नं पाणा य तणा य बीया य पणगा य - Jain Education L a For Private & Personel Use Only IT Imaw.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412