Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आराध्य यथोक्तकरणेन ( आणाए अणुपालिन्ता ) आज्ञया-जिनोपदेशेन यथा पूर्वैः पालितं तथा पश्चात् परिपाल्य ( अत्थेगइआ समणा निग्गंथा ) सन्त्येके ये अत्युत्तमया तत्पालनया श्रमणा निर्ग्रन्थाः ( तेणेव भवग्गहणेणं सिज्यंति ) तस्मिन्नेव भवग्रहणे - भवे सिद्ध्यन्ति कृतार्था भवन्ति ( बुज्झति ) बुद्ध्यन्ते केवलज्ञानेन (मुच्चंति ) मुच्यन्ते कर्मपञ्जरात् (परिनिधायंति ) परिनिर्वान्ति - कर्मकृत सर्वतापोपशमनात् शीतीभवन्ति ( सङ्घदुक्खाणमंतं करिंति ) सर्वदुःखानां शारीरमानसानां अन्तं कुर्वन्ति, ( अत्थेगइआ दुबेणं भवग्गहणेणं सिज्झति जाव अंतं करिंति ) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्ध्यन्ति यावत् अन्तं कुर्वन्ति, (अस्थेगइआ तच्चेणं भवग्गहणेणं जाव अंतं करिंति ) सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे यावत् अन्तं कुर्वन्ति, (सत्तट्ठ भवग्गहणाईं पुण नाइकमंति) जघन्ययाऽपि एतदाराधनया सप्ताष्ट भवांस्तु पुनः नातिक्रामन्तीति भावः ॥ (६३) ॥ अथैतत् न खबुद्ध्या प्रोच्यते किन्तु भगवदुपदेशपारतंत्र्येण इत्याह( तेणं कालेणं) तस्मिन् काले-चतुर्थारकपर्यन्ते ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे श्रमणो भगवान् महावीरः ( रायगिहे नगरे ) राजगृहे नगरे समवसरणावसरे (गुणसिलए चेहए ) गुणशैलनामचैत्ये (बहूणं समणाणं ) बहूनां श्रमणानां (बहूणं समणीणं ) बहूनां श्रमणीनां (बहूणं सावयाणं ) बहूनां श्रावकाणां (बहूणं सावियाणं ) बहूनां श्राविकाणां (बहूणं देवाणं ) बहूनां देवानां (बहूणं देवीणं ) बहूनां देवीनां (मज्झगए चेव ) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः ( एव माइक्खइ )
Jain Educationational
For Private & Personal Use Only
कल्पाराध नफलं उपसंहारो वी
रोकता
सू. ६३-६४
५
१०
१४.
www.jainelibrary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412