Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्यात्,
यदि क्षुरेण मुण्डापयति कर्त्तर्या वा तदाऽऽज्ञाभङ्गायाः दोषाः संयमात्मविराधना, यूकाछियन्ते नापितश्च पश्चात्कर्म करोति शासनापभ्राजना च, ततो लोच एव श्रेयान्, यदि चासहिष्णोलींचे कृते ज्वरादिर्वा स्यात् कस्यचिद् बालो वा स्याद् धर्म वा त्यजेत्ततो न तस्य लोच इत्याह- (अज्जेणं खुरमुंडेण वा लुकसिरएण वा होयवं सिया ) आर्येण - साधुना उत्सर्गतो लुञ्चितशिरोजेन, अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात्, तत्र केवलं प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि तेन करौ क्षालयति, यस्तु क्षुरेणापि कारयितुमसमर्थो व्रणादिमच्छिरा वा तस्य केशाः कर्त्तर्या कल्पनीयाः । (पक्खिया आरोवणा ) पक्षे पक्षे संस्तारकद्वरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः, अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं, वर्षासु विशेषतः, ( मासिए खुरमुंडे ) असहिष्णुना मासि मासि मुण्डनं कारणीयं ( अद्धमासिए कत्तरिमुंडे ) यदि कर्त्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं, क्षुरकर्त्तर्योश्च लोचे प्रायश्चित्तं निशी- थोक्तं यथासङ्ख्यं लघुगुरुमासलक्षणं ज्ञेयं । (छम्मासिए लोए ) षाण्मासिको लोचः (संवच्छरिए वा थेरकप्पे ) स्थविराणां वृद्धानां जराजर्जरत्वेनासामर्थ्याद् दृष्टिरक्षार्थं च 'संवच्छरिए वा थेरकप्पे'त्ति सांवत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति ॥ ( ५७ ) ॥
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां च ( परं पज्जोसवणाओ अहिगरणं वइत्तए) पर्युषणातः परं अधिकरणं- राटिस्तत्करं वच
Jain Education International
For Private & Personal Use Only
लोचविधिः सू. ५७
१०
१४
www.jainelibrary.org

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412