Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयमुपवासं चक्रे, भूपादिष्टसूपकारेण भोजनार्थ पृष्टेन तदिनापराव्या९चण्डप्रद्योतेन विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धूर्त्तसाधर्मिकेऽप्यस्मिन्नक्षमिते मम प्रतिक्रमणं ।
न शुद्ध्यतीति तत्सर्वस्खप्रदानतस्तद्भाले मम दासीपतिरित्यक्षराच्छादनाय स्खमुकुटपट्टदानतश्च श्रीउदयनराजेन । ॥१९२॥
चण्डप्रद्योतः क्षमितः, अत्र श्रीउदयनराजस्यैवाराधकत्वं, तस्यैवोपशान्तत्वात् । कचिच्चोभयोरप्याराधकत्वं, तथाहि-अन्यदा कौशाम्ब्यां सूर्याचन्द्रमसौ खविमानेन श्रीवीरं वन्दितुं समागच्छतः स्म, चन्दना च दक्षा अस्तसमयं विज्ञाय खस्थानं गता, मृगावती च सूर्यचन्द्रगमनात्तमसि विस्तृते सति रात्रि विज्ञाय भीता उपाश्रयमागत्यर्यापथिकी प्रतिक्रम्य निद्राणां चन्दनां प्रवर्तिनी क्षम्यतां मर्मापराध इत्युक्तवती, चन्दनापि भद्रे! कुलीनायास्तवेदृशं न युक्तमित्युवाच, साऽप्यूचे-भूयो नेदृशं करिष्ये इति पादयोः पतिता तावता प्रवर्तिन्या निद्राऽऽगात्, तया च तथैव क्षमणेन केवलं प्राप्त, सर्पसमीपात् करापसारणव्यतिकरण प्रबोधिता प्रवर्तिन्यपि कथं सोऽज्ञायीति पृच्छन्ती तस्याः केवलं ज्ञात्वा मृगावती क्षमयन्ती केवलमाससाद, तेनेदृशं मिथ्यादुष्कृतं देयं, न पुनः कुम्भकारक्षुल्लकदृष्टांतेन, तथाहि-कश्चित् क्षुल्लको भाण्डानि काणीकुर्वन् कुम्भकारेण निवारितो मिथ्यादुष्कृतं दत्ते न पुनस्ततो निवर्तते, ततः स कुम्भकारोऽपि कर्करैः क्षुल्लककर्णमोटनं ॥१९२॥ कुर्वन् पुनः पुनः क्षुल्लेन पीडयेऽहमित्युक्तोऽपि मुधा मिथ्यादुष्कृतं ददौ ॥ (५९)॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पइ निग्गंधाण वा निग्गंथीण वा तओ उवस्सया
२८
Jain Education in
For Private & Personel Use Only
Thainelibrary.org

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412