Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 400
________________ लोचविधिः सू.५७ कल्प.सुबो-हरियाणि य भवंति) वर्षासु 'ओसन्नंति प्रायेण प्राणा:-शङ्खनकेन्द्रगोपकृम्यादयस्तृणानि-प्रतीतानि बीजानिव्या०९ तत्तद्वनस्पतीनां नवोद्भिन्नानि किसलयानि पनका-उल्लयो हरितानि-बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति ॥ (५५)॥ वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पइ निग्गंथाण वा निग्गं॥१९॥ थीण वा तओ मत्तगाइं गिण्हित्तए) कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतुं (तंजहा) तद्यथा (उच्चारमत्तए पासवणमत्तए खेलमत्तए) उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ मात्रकाभावे वेलातिक्रमेण वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधनेति ॥ (५६)॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंधीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि केसे) पर्युषणातः परं आषाढचतुमासकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः, आस्तां दीर्घाः, 'धुंवलोओ उ जिणाणं, निचं थेराण वासवासासु' इति वचनात् (तं रयणि उवायणावित्तए) यावत्तां रजनी-भाद्रपदसितपश्चमीरात्रिं साम्प्रतं चतुर्थीरात्रिं नातिकामयेत्, चतुर्थ्या अर्वागेव लोचं कारयेत् , अयं भाव:-यदि समर्थस्तदा वर्षासु नित्यं लोचं कारयेद्, असमर्थोऽपि तां रात्रिं नोल्लड़येत्, पर्युषणापर्वणि लोचं विना प्रतिक्रमणस्यावश्यमकल्प्यत्वात् , IS केशेषु हि अप्कायविराधना, तत्संसर्गाच्च यूकाः संमूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखक्षतं वा १ भुवो लोचस्तु जिनानां नित्यं स्थविराणां वर्षावासेषु । २५ ॥१९॥ २७ Jan Education in For Private Personel Use Only

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412