Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 393
________________ ཟེཅཉཀུ कृत्वा-गुरुत्वेन कृत्वा विहरन्ति (कप्पइ से आपुच्छिउँ आयरियं वा जाव जं वा पुरओ काउं विहरह) आचार्याकल्पते तस्य आपृच्छय आचार्य यावत् यं वा पुरतः कृत्वा विहरति, अथ कथं प्रष्टव्यमित्याह-(इच्छामिणं याज्ञया गोभंते! तुम्भेहिं अन्भणुन्नाए समाणे गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) चर्याविहाइच्छाम्यहं हे पूज्य ! भवद्भिः अभ्यनुज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वारभूम्यादि इति, (ते य से वियरिजा, एवं से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए पविसित्तए वा) . ते आचार्यादयः 'से' तस्य साधोः वितरेयु:-अनुज्ञां दद्युः तदा कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा (ते य से नो वियरिजा, एवं से नो कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा |निक्खमित्तए वा पविसित्तए वा) ते आचार्यादयः तस्य नो आज्ञां दद्युः तदा नो कल्पते गृहस्थगृहे भक्तार्थ || वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, (से किमाहु भंते!) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह(आयरिया पञ्चवायं जाणंति) आचार्याः प्रत्यपायं-अपायं तत्परिहारं च जानन्तीति ॥ (४६)॥(एवं विहारभूमिं वा) एवमेव विहारभूमिः-जिनचैत्ये गमनं 'विहारो जिनसद्मनी' तिवचनात् (वियारभूमिं वा) विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं (अन्नं वा जंकिंचि पओअणं) अन्यद्वा यत्किञ्चित्प्रयोजनं लेपसीवन लिख नादिकं उच्छासादिवर्ज सर्वमापृच्छयैव कर्तव्यमिति तत्त्वं ( एवं गामाणुगामं दूइजित्तए) एवं ग्रामानुग्राम साहिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा, अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥ (४७)॥ १४ Jan Education Intematon For Private Personel Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412