Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 316
________________ कल्प: सुबो व्या० ७ ॥१४८॥ Jain Education Internation निष्पादयेत्याज्ञासमनन्तरमेव रत्नसुवर्णमय भवन पङ्क्तिप्राकारोपशोभितां नगरीमवासयत्, ततो भगवान् राज्ये हस्त्यश्वगवादिसङ्ग्रहपुरस्सरं उग्र भोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि व्यवस्थापितवान्, तत्रग्रदण्डकारित्वादुग्रा आरक्षकस्थानीयाः १ भोगार्हत्वाद् भोगा गुरुस्थानीयाः २ समानवयस इतिकृत्वा राजन्या वयस्यस्थानीयाः ३ शेषाः प्रधानप्रकृतितया क्षत्रियाश्च ४ । तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पद्रुमफललाभाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः शेषास्तु प्रायः पत्रपुष्पफल भोजिनोऽग्नेरै भावाच्चापकशाल्याद्यौषधी भोजिनश्चभूवन्, कालानुभावात्तदजीर्णे च खल्पं खल्पतरं च भुक्तवन्तः, तस्याप्यजीर्णे भगवद्वचसा हस्ताभ्यां घृष्ट्वा त्वचं अपनीय भुक्तवन्तः, तथाप्यजीर्णे प्रभूपदेशात् पत्रपुढे जलेन क्लेदयित्वा तण्डुलादीन् भुक्तवन्तः, एवमप्यजीर्णे कियतीमपि वेलां हस्ततलपुढे क्लेदयित्वा हस्ततलपुटे संस्थाप्य, पुनरप्यजीर्णे कक्षासु खेदयित्वा, तथाप्यजीर्णे हस्ताभ्यां घृष्ट्वा पत्रपुढे क्लेदयित्वा हस्ततलपुढे संस्थाप्येंत्यादिबहुप्रकारैरन्नभोजिनो बभूवांसः । एवं सत्येकदा द्रुमघर्षणान्नवोत्थितं प्रवृद्धज्वलज्ज्वालं तृणकलापं कवलयन्तं अग्निर्मुपलभ्याभिनवरत्नबुद्ध्या प्रसारितकरा दह्यमाना भयभीताः सन्तो युगलिनो भगवन्तं विज्ञपयामासुः, भगवता चग्निरुत्पत्तिं विज्ञाय भो युगलिका ! उत्पन्नोऽग्निः अत्र च शाल्याद्योषधीर्निधाय भुङ्गध्वं यतस्ताः सुखेन जीर्यन्तीत्युपाये कथितेऽ. प्यनभ्यासात् सम्यगुपायं अजानाना औषधीरग्नौ प्रक्षिप्य कल्पद्रोः फलानींव याचन्ते, अग्निना च ताः सर्वतो दह्यमाना दृष्ट्वा अयं पापात्मा वेताल इवातृप्तः स्वयमेव सर्वं भक्षयति नास्माकं किञ्चित् प्रयच्छतीत्यतोऽस्या For Private & Personal Use Only अग्नेरुत्पत्तिः शिल्पदर्शनम् २० २५ ॥१४८॥ २८ jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412