Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 382
________________ कल्प. सुबो व्या० ९ ॥१८१॥ Jain Education (हडिज्जा) कक्षायां वा समाहरेत्-आच्छादितं कुर्यात्, एवं च कृत्वा (अहाछन्नाणि लेणाणि वा उवागच्छिला ) यथाच्छन्नानि - गृहिभिः खनिमित्तमाच्छादितानि लयनानि - गृहाणि उपागच्छेत् (रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया वा नो परिआवज्जइ) यथा तस्य तत्र पाणौ दकं - बहवो बिन्दवः, दकरजो-बिन्दुमात्रं दगफुसिआ - फुसारं अवश्यायः न विराध्यन्ते पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोन दशपूर्वरत्वेन प्रागेव वर्षोपयोगो भवति, तथा चार्द्धभुक्ते गमनं न सम्भवति, तथापि छद्मस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ (२९) ॥ उक्तमेवार्थ निगमयन्नाह - ( वासावासं पज्जोसवियरस) चतुर्मासकं स्थितस्य (पाणिपडिग्गहियस्स भिक्खुस्स) पाणिपात्रस्य भिक्षोः (जंकिंचि कणगफुसियमित्तंपि निवडति ) यत्किञ्चित् कणो-लेशस्तन्मात्रं कं- पानीयं कणकं तस्य फुसिआ - फुसारमात्रं तस्मिन्नपि निपतति ( नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिन|कल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ (३०) ॥ उक्तः पाणिपात्रविधिः) अथ पात्रधारिणो विधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( पडिग्गहधारिस्स भिक्खुस्स) पात्रधारिणः - स्थविरकल्पिकादेः भिक्षोः (नो कप्पइ बग्घारियवुट्ठिकार्यसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति - यस्यां वर्षाकल्पो नीव्रं वा श्रवति कल्पं वा भित्त्वाऽन्तः कार्यं आर्द्रयति तत्र ( गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा For Private & Personal Use Only वृष्टौ मिक्षा गमनादिविधिः सू. २८-३१ २० २५ ॥१८१॥ २८ w.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412