Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हृष्टानांविकृतीनामकल्प्यता
रित्तए) इमा: वक्ष्यमाणाः नव रसप्रधाना विकतयोऽभीक्ष्णं-वारंवारं आहारयितुं न कल्पते (तंजहा) तद्यथा-12 (खीरं १ दहिं २ नवणीयं ३ सप्पि४ तिल्लं५ गुडं ६ महं ७ मज ८ मंसं ९) दुग्धं १ दधि २ म्रक्षणं ३ घृतं ४ तेलं ५ गुडः ६ मधु ७ मा ८ मांसं ९, अभीक्ष्णग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पक्कान्नं गृह्यतेऽपि, तत्र विकृतयो द्वेधा-साञ्चयिका असाञ्चयिकाश्च, तत्रासाञ्चयिका या बहुकालं रक्षितुमशक्या दुग्धदधिपक्कानाख्याः, ग्लानत्वे गुरुवालाद्युपग्रहार्थं श्राद्धाग्रहाद्वा ग्राह्याः, साञ्चयिकास्तु घृततैलगुडाख्यास्तिस्रः, ताश्च प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत्-गृह्णीत, चतुमोसी यावत् प्रभूताः सन्ति, ततो ग्राह्या बालादीनां च देया न तरुणानां, यद्यपि मधु १ मद्य २ मांस ३. नवनीत ४ वर्जनं यावज्जीवं अस्त्येव तथापि अत्यन्तापवाददशायां पायपरिभोगाद्यर्थ कदाचिद् ग्रहणेऽपि चतुर्मास्यां सर्वथा निषेधः॥ (१७)॥ (वासावासं पज्जोसवियाणं अत्थेगइआणं एवं वुत्तपुवं भवइ) चतुर्मासक स्थितानां अस्ति एतद् एकेषां-वैयावृत्त्यकरादीनां एवमुक्तपूर्व भवति, गुरुं प्रतीति शेषः, वैयावृत्त्यकरैगुरवे एवं उक्तं भवतीत्यर्थः (अट्ठो भंते। गिलाणस्स) हे भदन्त-भगवन् ! अर्थो वर्त्तते ग्लानस्य विकृत्या इति वैयावृत्त्यकरेण प्रश्ने कृते (से अ वएज्जा) स गुरुः वदेत् (अट्ठो) ग्लानस्य अर्थो वर्त्तते, (से अ पुच्छेअबो)। ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो) कियता विकृतिजातेन क्षीरादिना तवार्थः ?, तेन ग्लानेन खप्रमाणे उक्त ( से अ वइजा) स वैयावृत्त्यकरो गुरोरग्रे समागत्य यात्-( एवइएणं अट्ठो गिलाणस्स) एतावतार्थों
Jan Educatan Internationa
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412