SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ हृष्टानांविकृतीनामकल्प्यता रित्तए) इमा: वक्ष्यमाणाः नव रसप्रधाना विकतयोऽभीक्ष्णं-वारंवारं आहारयितुं न कल्पते (तंजहा) तद्यथा-12 (खीरं १ दहिं २ नवणीयं ३ सप्पि४ तिल्लं५ गुडं ६ महं ७ मज ८ मंसं ९) दुग्धं १ दधि २ म्रक्षणं ३ घृतं ४ तेलं ५ गुडः ६ मधु ७ मा ८ मांसं ९, अभीक्ष्णग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पक्कान्नं गृह्यतेऽपि, तत्र विकृतयो द्वेधा-साञ्चयिका असाञ्चयिकाश्च, तत्रासाञ्चयिका या बहुकालं रक्षितुमशक्या दुग्धदधिपक्कानाख्याः, ग्लानत्वे गुरुवालाद्युपग्रहार्थं श्राद्धाग्रहाद्वा ग्राह्याः, साञ्चयिकास्तु घृततैलगुडाख्यास्तिस्रः, ताश्च प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत्-गृह्णीत, चतुमोसी यावत् प्रभूताः सन्ति, ततो ग्राह्या बालादीनां च देया न तरुणानां, यद्यपि मधु १ मद्य २ मांस ३. नवनीत ४ वर्जनं यावज्जीवं अस्त्येव तथापि अत्यन्तापवाददशायां पायपरिभोगाद्यर्थ कदाचिद् ग्रहणेऽपि चतुर्मास्यां सर्वथा निषेधः॥ (१७)॥ (वासावासं पज्जोसवियाणं अत्थेगइआणं एवं वुत्तपुवं भवइ) चतुर्मासक स्थितानां अस्ति एतद् एकेषां-वैयावृत्त्यकरादीनां एवमुक्तपूर्व भवति, गुरुं प्रतीति शेषः, वैयावृत्त्यकरैगुरवे एवं उक्तं भवतीत्यर्थः (अट्ठो भंते। गिलाणस्स) हे भदन्त-भगवन् ! अर्थो वर्त्तते ग्लानस्य विकृत्या इति वैयावृत्त्यकरेण प्रश्ने कृते (से अ वएज्जा) स गुरुः वदेत् (अट्ठो) ग्लानस्य अर्थो वर्त्तते, (से अ पुच्छेअबो)। ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो) कियता विकृतिजातेन क्षीरादिना तवार्थः ?, तेन ग्लानेन खप्रमाणे उक्त ( से अ वइजा) स वैयावृत्त्यकरो गुरोरग्रे समागत्य यात्-( एवइएणं अट्ठो गिलाणस्स) एतावतार्थों Jan Educatan Internationa For Private & Personal Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy