________________
कल्प. सुबो
व्या० ९
॥१७७॥
Jain Education I
ग्लानस्य, ततो गुरुराह - ( जं से पमाणं वयइ ) यत् स ग्लानः प्रमाणं वदति ( से य पमाणओ घित्तवे ) तत्प्रमाणेन 'से' इति तद्विकृतिजातं ग्राह्यं त्वया, ततः ( से य विन्नविज्जा ) स च वैयावृत्त्यकरादिः विज्ञापयेत् कोऽर्थो ? - गृहस्थपार्श्वात् याचेत, विज्ञप्तिधातुरत्र याच्ञायां ( से य विन्नवेमाणे लभिज्जा ) स वैयावृत्यकरो याचमानो लभेत तद्वस्तु क्षीरादि ( से य पमाणपत्ते ) अथ च तद्वस्तु प्रमाणप्राप्तं पर्यासं जातं ततश्च ( होउ अलाहि इय वत्तवं सिआ ) तत्र 'होउ 'ति भवतु इतिपदं साधुप्रसिद्धं इच्छमितिशब्दस्यार्थे, अलाहित्ति सृतं इत्यर्थे, इति पदद्वयं गृहस्थं प्रति वक्तव्यं स्यात्, ततो गृही ब्रूते - ( से किमाहु भंते !) अथ किमाहुर्भदन्ताः !, कुतो भवन्तः सृतमिति ब्रुवते इत्यर्थः, ततः साधुराह - (एवइएणं अट्ठो गिलाणस्स) एतावतैव अर्थोऽस्तीति, ततः (सिया णं एवं वयंतं परो वइज्जा ) स्यात् - कदाचित् णं इति वाक्यालङ्कृतौ एवं वदन्तं साधुं प्रति परो- गृहस्थो वदेत्, यत् (पडिगाहेहि अजो ! पच्छा तुमं भोक्खसि वा पाहिसि वा ) हे आर्य !-साधो प्रतिगृहाण पश्चात् ग्लानभोजनानन्तरं यदधिकं तत् त्वं भोक्ष्यसे- भुञ्जीथाः पकान्नादिकं, पास्यसि-पिबेः क्षीरादिकं, कचित् 'पाहिसि'त्तिस्थाने 'दाहिसि' त्ति दृश्यते, तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्या इति व्याख्येयं ( एवं से कप्पड़ पडिगाहित्तए) एवं तेनोक्ते तत् कल्पते अधिकं प्रतिग्रहीतुं (नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ) न च पुनर्लान निश्रया गार्ध्यात् स्वयं ग्रहीतुं ग्लानार्थ याचितं मण्डल्यां नानेयमित्यर्थः ॥ ( १८ ) |
( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां ( अत्थि णं थेराणं तहष्पगाराई कुलाई ) अस्त्येतत् णं
For Private & Personal Use Only
ग्लानार्थ विकृत्यानयनं सू. १८
२०
२५ ॥ १७७॥
२८
www.jainelibrary.org