Book Title: Subodhikakhya vruttiyutama
Author(s): Vinayvijay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 343
________________ समाहारद्विगुभवनात्, तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिबतो बालस्योपरि बिडा-श्रीस्थलमलिकाकारवक्त्रार्गलापातेन मरणे गुरूणां प्रशंसा,तस्य निन्दा च,सर्वत्र प्रससार, ततः कोपान्मृत्वा व्यन्तरी-| द्रवृत्तम् भूयाशिवोत्पादादिना सङ्घ उपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः, उक्तं च-उवसग्गहरं थुतं काऊणं जेण सङ्घकल्लाणं । करुणापरेण विहिअं.स भद्दबाहू गुरू जयउ ॥१॥ (थेरस्स णं अन्जसंभूइविजयस्स माढरसगुत्तस्स) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते) शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रोऽभूत्, स्थूलभद्रसम्बन्धश्चैवं-पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो, वररुचिद्विजप्रयोगात् पितरि मृते नन्दराजेनाकार्य मन्त्रिमुद्रादानार्याभ्यर्थितः सन् पितृमृत्युं खचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच सम्भूतिविजयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वक कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैः दुष्करदुष्करकारक इति सङ्घसमक्षं प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहासर्पबिलकूपकाष्ठस्थायिनत्रयो मुनयो दूनाः, तेषु सिंहगुहास्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोजनि, तदनु तया नेपालदेशानायितरत्नकम्बलं खाले क्षिप्त्वा प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखि १ उपसर्गहरं स्तोत्रं कृत्वा येन संघकल्याणम् । करुणापरेण विहितं स भद्रबाहुर्गुरुर्जयतु ॥ १ ॥ Jain Education HAI For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412