SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ समाहारद्विगुभवनात्, तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिबतो बालस्योपरि बिडा-श्रीस्थलमलिकाकारवक्त्रार्गलापातेन मरणे गुरूणां प्रशंसा,तस्य निन्दा च,सर्वत्र प्रससार, ततः कोपान्मृत्वा व्यन्तरी-| द्रवृत्तम् भूयाशिवोत्पादादिना सङ्घ उपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः, उक्तं च-उवसग्गहरं थुतं काऊणं जेण सङ्घकल्लाणं । करुणापरेण विहिअं.स भद्दबाहू गुरू जयउ ॥१॥ (थेरस्स णं अन्जसंभूइविजयस्स माढरसगुत्तस्स) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते) शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रोऽभूत्, स्थूलभद्रसम्बन्धश्चैवं-पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो, वररुचिद्विजप्रयोगात् पितरि मृते नन्दराजेनाकार्य मन्त्रिमुद्रादानार्याभ्यर्थितः सन् पितृमृत्युं खचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच सम्भूतिविजयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वक कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैः दुष्करदुष्करकारक इति सङ्घसमक्षं प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहासर्पबिलकूपकाष्ठस्थायिनत्रयो मुनयो दूनाः, तेषु सिंहगुहास्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोजनि, तदनु तया नेपालदेशानायितरत्नकम्बलं खाले क्षिप्त्वा प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखि १ उपसर्गहरं स्तोत्रं कृत्वा येन संघकल्याणम् । करुणापरेण विहितं स भद्रबाहुर्गुरुर्जयतु ॥ १ ॥ Jain Education HAI For Private & Personal Use Only w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy