Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३१६
वेदान्तदीपे
[अ. १
वेदान्तदीपे - दहर उत्तरेभ्यः।। छान्दोग्ये १ अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्" इत्यत्र हृदयपुण्डरीकमध्यवर्ती दहराकाशश्श्रूयमाणः किं भूताकाशः ? उत जीवः ? अथ परमात्मा - इति संशयः । प्रथमं तावद्भूताकाश इति युक्तमाश्रयितुमिति पूर्वः पक्षः, आकाशशब्दस्य भूताकाशे प्रसिद्विप्राचुर्यात्, आकाशान्तर्वर्तिनो ऽन्यस्यान्वेष्टव्यताप्रतीतेश्च । राद्धान्तस्तु२" किं तदत्र विद्यते यदन्वेष्टव्यम्" इति चोदिते, ३" यावान्वा अयमाकाशः" इत्यारभ्य, ४ " एतत्सत्यं ब्रह्मपुरम्" इत्यन्तेन दहराकाशस्यातिमहत्त्व सर्वाश्रयत्वाजरत्व सत्यत्वाद्यभिधाय, ४' अस्मिन्कामास्समाहिताः" इत्याकाशान्तर्वर्तिनोऽन्वेष्टव्याः कामा इति प्रतिपाद्य, कोऽयं दहराकाशशब्दनिर्दिष्टः ? के तदाश्रयाः कामाः ? इत्यपेक्षायाम्, ४" एष आत्माऽपहतपाप्मा" इत्यारभ्य, ४" सत्यसङ्कल्पः" इत्यन्तेन आकाशशब्दनिर्दिष्टः आत्मा, कामाश्चापहतपाप्मत्वादयस्तद्विशेषणभूता इति प्रतिपादयद्वाक्यमपहतपाप्मत्वादिविशिष्टपरमात्मानमाह । उपक्रमे चान्वेष्टव्यतया प्रतिज्ञात आकाशः आत्मा, एतद्विशेषणभूताः अपहतपाप्मत्वादयः कामा इति वाक्यं ज्ञापयत् ५ " अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवति" इत्युपसंहरति । अतोऽयं दहराकाशोऽपहतपाप्मत्वादिविशिष्टः परमात्मेति निश्चीयते, न भूताकाशादिरिति । एवं तर्ह्यस्मिन्वाक्ये ६ "अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय " इति प्रत्यगात्मप्रतीतेः, तस्य चोत्तरत्र प्रजापतिवाक्ये ऽपहतपाप्मत्वादिगुणकत्वावगमात् प्रत्यगात्मैव दहराकाश इति पूर्वपक्षी मन्यते । राद्धान्ती - प्रत्यगात्मा कर्मपरवशतया जागरितस्वप्नसुषुत्याद्यवस्थाभिः तिरोहितापहतपाप्मत्वादिकः परमात्मानमुपसम्पन्नः तत्प्रसादादाविर्भूतगुणकः प्रजापतिवाक्ये प्रतिपादितः । दहराकाशस्त्वतिरोहितनिरुपाधिकापहतपाप्मत्वादिकः प्रत्यगात्मन्यसम्भावनीयजगद्विधरणसमस्तचिदचिद्वस्तु नियमनाद्यनन्तगुणकः प्रतिपन्न इति नायं प्रत्यगात्मा दहराकाशः, अपितु परमात्मैवेति म न्यते । सूत्रार्थस्तु — दहराकाशः परं ब्रह्म, उत्तरेभ्यः- उत्तरवाक्यगतेभ्यो ऽपहतपाप्मत्वादिपरमात्मा साधारणधर्मेभ्यो हेतुभ्यः ॥ १३ ॥
१. छा. ८-१-१॥
२. छा. ८-१-२ ॥
३. छा. ८-१-३ ॥
www.kobatirth.org
"
Acharya Shri Kailassagarsuri Gyanmandir
४. छा. ८-१-५ ॥
५. छा. ८-१-६ ॥
६. छा. ८-३-४ ॥
For Private And Personal Use Only

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465