Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 408
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा..] जगद्वाचित्वाधिकरणम्. ३८७ तस्मादस्मिन्वाक्ये पुरुषादर्थान्तरभूतस्य निखिलजगत्कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाऽभिधानान्न तन्त्रसिदस्य पुरुषस्य तदधिष्ठितस्य वा प्रधानस्य कारणत्वं कचिदपि वेदान्ते प्रतीयत इति स्थितम् ॥ १८ ॥ इति श्रीशारीरकमीमांसाभाष्ये जगद्वाचित्वाधिकरणम् ॥ ५ ॥ वेदान्तसारे-जगदाचित्वात् ॥ १" ब्रह्म ते ब्रवाणि " इत्युपक्रम्य १"यो वै बालाक एतेषां पुरुषाणां कतो यस्य वैतत्कर्म स वै वेदितव्यः इत्यत्र कर्मशब्दस्यैतच्छब्दसामानाधिकरण्येन क्रियत इति व्युत्पत्त्या जगद्वाचित्वात् परमेव ब्रह्म वेदितव्यतयोपदिष्टम् ॥ १६ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तयाख्यातम् ॥ २"एतैरात्मभि " ३" अथास्मिन्प्राण एवैकधा भवति" इति च जीवादिलिङ्गान पर इति चेत्एतत् प्रतर्दनविद्यायामेव परिहृतम्-पूर्वापरपर्यालोचनया ब्रह्मपरत्वे निश्चिते तदनुगुणतया नेयमन्यल्लिङ्गम् इति ॥ १७ ॥ ____ अन्यान्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपिचैवमेके ॥ १"तौ ह सुप्तं पुरुषमाजग्मतुः” इत्यादिना देहातिरिक्तजीवसद्भावप्रतिपादनं तदतिरिक्तपरमात्मसद्भावशापनार्थमिति, "क्कैष एतद्वालाके पुरुषोऽशयिष्ट" इति प्रश्नात् , ३"अथास्मिन्प्राण एवैकधा भवति" ४ 'सता सोम्य तदा सम्पन्नो भवति" इति वाक्यसमानार्थकात् प्रतिवचनाचावगम्यते। एके वाजसनेयिनोऽपि एतत्प्रतिवचनसरूपं वाक्यं स्पष्टमधीयते च, १ "कैष एतत्" इत्यादि, ५“य एषोऽन्तर्हृद्य आकाशस्तस्मिञ्च्छेते" इत्यन्तम् ॥ १८ ॥ इति वेदान्तसारे जगद्वाचित्वाधिकरणम् ॥ ५ ॥ वेदान्तदीपे-जगदाचित्वात् ॥ कौषीतकिना १ "ब्रह्म ते ब्रवाणि" इत्युपक्रम्य १“यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदित१. कौषी. ४-१८॥ ४. छा. ६-८-१ ॥ ५.१ ४-१-१७ ॥ ३. कौषी. ४-१९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465