Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 432
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ४.] प्रकृत्यधिकरणम्. ४११ तिष्ठत्" इत्युपादानं निमित्तं चोभयं ब्रह्मैवेति हि साक्षादानायते ; अतश्चोभये ब्रह्म ॥२५॥ आत्मकृतेः ॥ १"तदात्मानं स्वयमकुरत" इति स्रष्टुरात्मन एव जगदाकारेण कृतिरुपदिश्यते ; अतश्चोभयं ब्रह्मैव । नामरूपभावावाभ्याम् एकस्य कर्मकर्तृभावो न विरुद्धः॥२६॥ ____यद्यात्मानमेव ब्रह्म जगदाकारं करोति, तर्हि ब्रह्मणोऽपहतपापत्वादि. कमनवधिकातिशयानन्दस्वरूपत्वं सर्वशत्वमित्यादि सर्व विरुध्यते, अज्ञत्वासु. खित्वकर्मवश्यत्वादिविपरीतरूपत्वाजगत इत्यत उत्तरं पठति परिणामात् ।। अक्षब्रह्मविवर्तवादे हि तद्भवत्येव, अज्ञानस्य तत्कार्यरूपानन्तापुरुषार्थस्य च वेदान्तजन्यज्ञाननिवर्त्यस्य ब्रह्मण्येवान्वयात् , तदा शास्त्रस्य भ्रान्तजल्पितत्वापाताश्च । अविभक्तनामरूपसूक्ष्मचिचिवस्तुशरीरकस्य ब्रह्मणः विभक्तनामरूपस्थूलचिदचिवस्तुशरीरत्वेन परिणामो हि वेदान्तेभूपदिश्यते, २"तद्धेदं त_व्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इत्येवमादिभिः । अपुरुषार्थाश्च विकाराश्शरीरभूतचिदचिवस्तुगताः । कारणावस्थायां कार्यावस्थायां चात्मभूतं ब्रह्म अपहतपाप्मत्वादिगुणकमेव । स्थूलसूक्ष्मावस्यस्य कृत्स्नस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वम्, ब्रह्मणश्च तदात्मत्वम् ३"यः पृथिव्यां तिष्ठन्" "यस्य पृथिवी शरीरम्” इत्यारभ्य ४'यस्याव्यक्तं शरीरम् यस्याक्षरं शरीरम् यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देवः” इत्येवमादिश्रुतिशतसमधिगतम् । अतस्सर्वमनवद्यम् ॥ २९ ॥ योनिश्च हि गीयते ॥ ५"यद्भतयोनि परिपश्यन्ति धीराः'६"कर्तारमीशं पुरुषं ब्रह्मयोनिम्" इत्यादिषु सर्वस्य भूतजातस्य परमपुरुषः योनि. त्वेन गीयते । हिशब्दो हेतौ। यस्माद्योनिरिति गीयते,तस्माश्चोपादानमपि ब्रह्म। योनिशब्दश्वोपादनकारणपर्यायः ।। २८ ॥ इति वेदान्तदीपे प्रकृत्यधिकरणम् ॥ ७ ॥ १. ते. आ. ७-१ ।। २. १. ३-४-७ ॥ ३. १. ५-७.३ ॥ ४. सुबाल, ७॥ ५. मु. १-१-६॥ ६. मु. ३.१-३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465