Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१० बेदान्तदीपे
[म.. अविभागावस्थायामपि जीवस्तत्कर्म च सूक्ष्मरूपेण तिष्ठतीति वक्ष्यति "न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च" इति ॥ २७ ॥
योनिश्च हि गीयते ॥ २"यद्भूतयोनिम्" इत्यादिषु योनिश्च गीयते ; अतश्वोपादानमपि ॥ २८ ॥
___ इति वेदान्तसारे प्रकृत्यधिकरणम् ॥ ७ ॥ वेदान्तदीपे-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्।।परं ब्रह्म किं जगतो निमित्तकारणमात्रम् ,उतोपादानकारणमपीति संशयः। निमित्तकारणमात्रमिति पूर्वः पक्षः, मृत्कुलालादौ निमित्तोपादानयोर्भेददर्शनात् ; ३"अस्मान्मायी स्जते विश्वमेतत्" इत्यादिभिर्भेदप्रतिपादनात्, ब्रह्मणोऽषिकारत्वश्रुतिविरोधाच । राद्धान्तस्तु-'येनाश्रुतं श्रुतम्" इति ब्रह्मविज्ञानेन सर्वविज्ञानप्रतिक्षानान्यथानुपपत्त्या ५“यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयम्" इति मृत्तकायदृष्टान्तेन तदुपपादनाच जगदुपादानकारणमपि ब्रह्मैवेति विज्ञायते । प्रमाणान्तरावसितसकलवस्तुविलक्षणस्य शास्त्रैकसमधिगम्यस्य परस्य ब्रह्मणस्सवक्षस्य सर्वशक्तेः कार्यकारणोभयावस्थायामपि स्वशरीरभूतचिदचित्प्रकारतयाऽवस्थितस्यैकस्यैव निमित्तत्वमुपादानत्वं चाविरुद्धम् । शरीरभूताचिद्वस्तुगतो विकार इति कार्यावस्थावस्थितस्यापि शरीरिणः परमात्मनोऽविकारित्वं सिद्धमेव । चिदचिद्वस्तुशरीरस्य ब्रह्मण एवोपादानत्वेऽपि ब्रह्मण्यपुरुषार्थवि. कारास्पर्शप्रदर्शनाय हि ३"अस्मान्मायी सृजते विश्वमेतत्तस्मिश्चान्यो मायया सनिरुद्धः" इति व्यपदेशः । प्रतिज्ञादृष्टान्तानुपरोधात् उपादानं च ब्रह्मैवेति सूत्रार्थः ॥२३॥
अभिध्योपदेशाच्च ॥ ६"सोऽकामयत बहु स्याम्""तदक्षत बहु स्यां प्रजायेय" इति स्रष्टब्रह्मणस्वस्यैव जगदाकारेण बहुभवनचिन्तनोपदेशाञ्च जगदुपादानं निमित्तं च ब्रह्मैवेति निश्चीयते ॥ २४ ॥
साक्षाच्चोभयानानात् ॥ ८"किं स्विद्वनं क उ स वृक्ष आसीत्"इस्यादिना जगदुपादाननिमित्तादौ पृष्टेः"ब्रह्म वनं ब्रह्म स वृक्ष आसीत्"८"ब्रह्माध्य१. शारी. २-१-३५॥
। ५. का ६,१-४ ॥ २. मु. १-१-६॥
६.ते. आ. ६.२ ॥ ३. श्वे. ४-९ ॥
७.छा. ६-२-३ ॥ ४. डा. ६-१-३॥
८. अष्ट. २-प्र. ८.अनु. ७-८॥
For Private And Personal Use Only

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465