Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 461
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसाराषल्याम् [अ. १. - अथ कारणत्वाधिकरणम् ॥ ४॥)--- विश्वोपादानवक्त्री श्रुतिषु सदसदव्याकृतोक्तिः परोक्ते छव्यक्तेऽन्वेति तस्मात्तदितरदखिलं नेयमतिचेन्न । यत्रासत्त्वादि दृष्टं प्रकरणविदितन्तत्र सर्वज्ञताचं लिङ्गं स्यादित्यधीतं स्थिरमपि तदिहाबाध्य आत्मादिशब्दः ॥८ आसीदग्रे त्वसद्वा इदमिति विलयावस्थतामालमुक्तं नैवासीत् किञ्चिदित्याद्यपि विलयपरं शून्यतादेनिषेधात् । सर्वस्याव्याकृतत्वं विभजनविरहात्तादृशावस्थतत्तद् द्रव्यस्तोमान्तरात्मा तदिह सदसदव्याकृतायुक्तिवाच्यः॥ ९ इति कारणत्वाधिकरणम् ॥ ४ ॥ ---(अथ जगद्वाचित्वाधिकरणम् ॥ ५॥)--- यस्यैतत्कर्म वेद्यस्स इति वचनतः कर्मवश्यप्रतीतेः कर्ता पुंसां सएव स्वकृतपरिणतेरित्युपक्रान्तिभनम् । बालाक्यज्ञाततत्त्वान्तरमुपदिशतः स्यादिहाजातशत्रोस्तज्ज्ञातोक्तिनिरर्था जगति कृततया कर्मशब्दोऽत्र मुख्यः॥ १० एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्यप्राणाख्यानं न तेन क्षतिरिह हि तथा तद्विशिष्टे धुपासा । प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्या ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी ॥ ११ इति जगद्वाचित्वाधिकरणम् ॥ ५॥ -..( वाक्यान्वयाधिकरणम् ॥ ६॥).-..-- पत्यादीनां प्रियत्वं श्रुतिरनुवदति यात्मनः कामसिद्ध्यै तेनासौ पुण्यपापोदितफलभुगिति प्रक्रमादिप्रतीपम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465