Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 459
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [म. १० वक्ता शूद्रेति जानश्रुतिमभिमुखयञ् शोकमस्य व्यनक्ति क्षत्रप्रेषादिलिङ्गैस्स्फुटतरविदितं क्षत्रियत्वं हि तस्य ॥ २९ धृत्वेति प्राच्यवाक्यप्रकृत इह भवेन्मुक्त आकाशनामा बन्धेऽसौ नामरूपे वहति तदनु च ब्रह्मभावे जहाति । इत्यन्याय्यं पुरोक्तः पुनरयमभिसम्भाव्य एव ह्युपात्तो ब्रह्मत्वन ह्यवस्था श्रुतिषु च युगपज्ज्ञाज्ञतादिविभक्तः॥ ३० विश्वात्मानन्तभूमा नियमनधृतिकृन्मुक्तभोग्यस्वभावो दहस्वाधारसर्वो हृदयपरिमितावस्थया सर्वयन्ता । देवादीनामुपास्यो वसुमुखविबुधैस्वात्मभावेन सेव्यइशूद्राद्योपास्त्यनहः प्रभुरिह बुबुधे नामरूपैककर्ता ॥ ३१ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥३॥ (अथ प्रथमस्याध्यायस्य चतुर्थः पादः॥)-- निर्णीतं वाक्यजातं परविषयतया स्पष्टजीवादिलिङ्गं तत्तच्छायानुसारि प्रथयति तु वचस्तत्परन्तुर्यपादे । षड्भिाभ्यां च तत्र प्रशमयति नयैस्सालययोगोक्तशङ्कां घट्टौ जाघट्ट इत्थं कथितनिगमनं त्वष्टमं केचिदुचुः॥ द्वाभ्यां क्षेप्यं प्रधानं कपिलमतमथ त्वेकतोऽन्योक्तसङ्ख्या तुर्येणाव्याकृतोक्तेरपि विभुरवधिस्स्थाप्यते द्वारवृत्त्या । शुद्धाशुद्धौ च जीवावधिकरणयुगेऽनन्तरं वारणीयौ शेषन्तत्रान्तरोक्तेश्वरनिरसनकृत्तुर्यपादाष्टकेऽस्मिन् ॥ अक्षाघव्यक्तनिष्ठं जडमथ पुरुषन्तवकाष्ठां विविच्य ब्रूते वल्ली कठानां परमतपठितां प्रक्रियामित्ययुक्तम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465